________________
१९१
स्याद्वदमञ्जरीसहिंता
श्लोक २३ वस्तु अस्त्येव इत्यत्र. यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रति तेषां कालेनाभेदवृत्तिः । (२) यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेव अन्यानन्तगुणानामपीति आत्मरूपेणाभेदवृत्तिः। (३) य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः । (४) य एव चाविष्वग्भावः कथंचित् तादात्म्यलक्षणः सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाभेदवृत्तिः (५) य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः । (६) य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यगुणानामिति गाणिदेशेनाभेदवृत्तिः । (७) य एव चैकवस्त्वात्मनास्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसर्गेणाभेदवृत्तिः, अविष्वग्भावेऽभेदःप्रधानम्, भेदो गौणः, संसर्गे तु भेदः प्रधानम् , अभेदो गौण इति विशेषः । (८) य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः पर्यायाथिकनयगुणभावे द्रव्यार्थिकनयप्राधान्याद् उपपद्यते । द्रव्यार्थिक गुणभावे पर्यायार्थिकपाधान्ये तु न गुणानामभेदवृत्तिः सम्भवति । समकालमेकत्र नानागुणानामसम्भवात् । सम्भवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात् । नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात् , आत्मरूपाभेदे तेषां भेदस्य विरोधात् । स्वाश्रयस्यास्यापि नानात्वाद् , अन्यथा नानागुणाश्रयत्वस्य विरोधात् । सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनाद नानासम्बन्धिभिरेकत्रसम्बन्धाघटनात्। तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य प्रतिगुणं
१ 'भावेन ' इति क. ह. पुस्तकयोः पाठः। २ 'एकस्य' इति क. ख. घ. रा. ह. पुस्तकेषु नास्ति ।
२५