SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८५ स्याद्वादमञ्जरीसहिता श्लोक २३ एकस्य एकत्रैव निवर्त्यनिवर्त्य विकारारम्भकत्वायोगात् नह्येकमेव तत्रैव निवर्त्य - कारारम्भकम् चानुभवितुमर्हति तथा दर्शनात् । ननु द्विविधोऽपि व्याधिः साध्योऽसाध्यश्च तत्र साध्यो निवर्त्यस्वभावस्तमेव चाधिकृत्य चिकित्सा फलवती असाध्योऽनिवर्तनीयः न च साध्यासाध्यभेदो न वा व्याधितैविध्यमप्रतीतं सकललोकप्रसिद्धत्वात् व्याधिश्च दोषेण कृतस्ततः कथं दोषाणां निवर्त्यानिवर्त्याविकारारम्भकत्वमनुपपन्नमिति तदप्यसत् भवन्मते साध्यासाध्यव्याध्यनुपपत्तेस्तथाह्यसाध्यता व्याधेः क्वचिदायुः क्षयाच्च तथाहि तस्मिन्नेव व्याधौ समानेऽप्योपधवैद्यकसंपर्के कश्चिम्रियते कश्चिन्न क्वचित्पुनः प्रतिकूलकर्मोंदयात् प्रतिकूलकर्मोदयजनितो हि श्वित्रादिव्याधिरौषधसहसैरपि कश्चिदसाध्यो भवति एतच्च द्विविधमपि व्याधेरसाध्यत्वमर्हतमेव मते संगच्छते न भवतो भूतमात्रतत्त्ववा दिनः क्वचित्पुनरसाध्यो व्याधिर्दोषकृतविकार निवर्तनसमर्थो निषधस्याभावात् वैद्यस्य वा वैद्यैौषधसंरकीभावे हि व्याधिः प्रसर्पन् सकलमप्यायुरुपक्रमते । नतु वैद्यौषधसंपर्काभावादेवास्माकमपि पुनरुज्जीवनं भविष्यति नहि तदस्ति किंचिदौषधं वैद्यो वा यत्पुनरुज्जीवयति तदप्ययुक्तं वैद्यौषधौ हि दोषविकारनिवर्तनार्थ मिष्येते न पुनरत्यन्तास तश्चैतन्यस्योत्पादनार्थ तथाभ्युपगमात् दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ता ज्वरादेरदर्शनात्ततः किं वैद्यौषध न्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसंगः। अपि कश्चिद्दोषाणामुपशमेऽप्येकस्मान्म्रियते कश्चिच्चातिदोषदुष्टत्वेऽपि जीवति तदेतद्भवन्मते कथमुपपत्तिमर्हति तथा च केचिद् ब्रुवते " दोषस्योपशमेऽप्यस्ति मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन स्याद्भवन्मते ||" अहंतां तु शासने याव दायुः कर्म विजृम्भते तावद्दोषैरतिपीडितोऽपि जीवति आयुः कर्मक्षयेच दोषाणामधिकृतावपि म्रियते तन्न देहमात्रकारणं संवेदनम् । अन्यच्च देहः कारणं संवेदनस्य सहकारिभूतं वा भवेदुपादानभूतं वा यदि सहकारिभूतं तदिष्यत एव देहस्यापि क्षयोपशमहेतुतया कथचिद्रिज्ञानहेतुत्वाभ्युपगमात अथोपादानभूत तदयुक्तमुपादानं हि तत्तस्य यद्विकारणैव तस्य विकारो यथा मृदूघटस्य न च देहविकारेणैव विकारः संवेदनस्य देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शन. त् तत्र देहोप दानं संवेदनस्य तथा च पठत्युपादानलक्षणमपरे अधिकृत्य हि यद्वस्तुना यः पदार्थों विकार्यते उपादानं तत्तस्य युक्तं गेोगवयादिवत् एतेन यदुच्यते मातापितृचैतन्यमेतच्चेतनस्योपादानमिति तदपि प्रतिक्षितं तत्रापि तद्विकारे विकारित्वं तदविकारे वाविकारित्वमिति नियमादर्शनात् । अन्यच्च यद्यस्यापादानं तत्तस्माद् भेदेन व्यवस्थितं यदा मृदो घटः मातापितृचैतन्य सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृ चैतन्य, दभेदेन व्यवतिष्ठते न व्यवतिष्ठेत तस्माद्यत्किंचिदेतत् तत्र भूतधर्मी भूतकार्य वा चैतन्यं किंचात्मनो गुण इति तद्गुणस्य प्रत्यक्षसिद्ध आत्मा अनुमानसिद्धश्च तच्चानुमानमिदं रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति ग्राह्यग्राहकरूपत्वात् यः कर्मकरणे सति ग्राह्यग्राहकरूपस्सद्विद्यमानप्रयोजको यथा संदेशोयःपिण्डे कर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्र २४
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy