________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
कारणेन सह कार्यस्यान्यथानुपपन्नत्वप्रतिबन्धेन दृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितः। ततः सिद्धः परलोकयायी जीवः । सिद्धे च तस्मिन् परलोकयायिनि यदि कथंचिदुपकारी चाक्षुष देविज्ञानस्य देहो भवेत् न कश्चिद्दोषः क्षयोपशमहेतुतया देहस्यापि कथंचिदुपकारित्वाभ्युपगमात् न चैतावता तनिवृत्ती सर्वथा तन्निवृत्तिः नहि वह्निर सादितविशेषो घटो वह्निनिवृत्तौ समूलच्छेदं निवर्तते केवलं विशेष एव कश्चनापि यथा सुवर्णस्य द्रक्ता एवमिहापि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्तते न पुनः समूलं ज्ञानमपि यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्यते देह निवृत्तौ च निवृत्तिमर्हि देहस्य तस्य भस्मावस्थायां मा भूद्देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान्न भवति प्राणापानयोरपि हेतुत्वात्तदभावेन भवतीति चेन्न प्राणापानयोञ्जनहेतुत्वायोगात् जानादेव च तयोरपि प्रवृतिस्तथाहि यदि मंदौ प्राणापानौ विसृष्टमिष्यते ततो मन्दौ भवतः दीर्घा चेत्तर्हि दीर्घाविति यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापान निमित्तं च विज्ञानं - तर्हि नेत्थमिच्छावशात् प्राणापानप्रवर्तमानादृष्टप्राणापाननिमित्तं च याद विज्ञानं ततः प्राणापाननिहाँसातिशयसभविज्ञानस्यापि निहसतिशयौ. स्यात.म् अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् अन्यथा कारणमेव तत्र स्यात् भवतः प्राणाभवतः प्राणापाननिहासातिशयसंभवे विज्ञानस्यापि विनिहस विश्.यौ विपर्ययस्यापि भावात् मरणावस्थायां प्राणापानातिशयसंभवेऽपि विज्ञानस्य ह सदर्शनात् । स्यादेतत्तत्तदानी वातपित्तादिभिर्दोषैदेहस्य विगुणीकृतत्वात् तदसमीचीनतरमेवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः । तथाहि मृतस्य दोषाः समीभवन्ति समीभवनं च दोषाणामसीयते ज्वरादिविकारादर्शनात् समत्वं चारोग्यं तथा चाहुवृद्धाः “ तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय" इति। आरोग्यलाभत्वाद्देहस्य पुनरुज्जीवनं भवेत् अन्यथा चेह कारणमेव चेतसो न स्यात् तद्विकाराभावाभावान्नतु विधानादेवं हि देहकारणता विकारस्याश्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत स्यादेतदयुक्तमिदं पुनरुज्जीवनप्रसंगोपादानं यतो यद्यपि दोषा देहस्यावैगुण्यमाधाय निवृत्तास्तथापि न तत्कृतस्य वैगुण्यस्य निवृत्तिः न हि दहनकृतो विकारः काष्ठे दहननिर्वृत्तो निवर्तमानो दृष्टः तदयुक्तमिह हि क्वचि. त्किंचिदनिवर्त्य विकारारम्भकम् । यथा वह्निः काष्ठे श्यामतामात्रमपि वह्निना कृतं काठे वह्निनिवृत्तौ निवर्तते किंचित्पुनः क्वचिन्निवर्त्य विकारारम्भकं यथा स एवानिः सुवर्ण तथाहि अग्निना क्रमात्सुवर्ण भवति अमिनिवृत्तौ निवर्तते तत्र वातादयो दोषा निवर्त्य विकारारम्भकाश्चिकित्साप्रयोगदर्शन त् । यदि पुनरनिवर्त्य विकारारम्भका भवेयुस्तर्हि न तद्विकारनिवर्तनाय चिकित्सा विधीयेत वैफल्यप्रसंगात् । न च वाच्यं मरणात् प्राग्दोषा अनिवर्त्यविकारारम्भका मरणकाले च निवर्त्य विकारा इति