________________
(२८) न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्राय श्चित्तवत, तत्रापि प्रत्यवायध्वंसद्वारा दुःखानुत्पत्तरेवापेक्षितत्वात् । लोके
यहिकण्टकादिनिवृत्तेर्दुःखानुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः।
केचित्तु दुःखात्यन्ताभाव एव मुक्तिः । स च यद्यपि नात्मनिष्ठस्तथापि लोष्ठादिनिष्ठ एवात्मनि साध्यते। सिद्धिश्च तस्य दुःखप्रागभावासहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तत्र दुःखात्यन्ताभावप्रतीतेः। एवञ्च सति 'दुःखेनात्यन्तं विमुक्तश्चरति' इत्यादिश्रुतिरप्युपपादिता भवतीत्याहुः।
तन्न दुःखात्यन्ताभावस्यासाध्यत्वेनापुरुषार्थत्वात् । दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः 'दुःखेनात्यन्तं विमुक्तश्चरति' इति श्रुतेदुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ताभावसमानरूपत्वतात्पर्यकत्वात् । नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावोपाधिकीत्येव किं न स्यात् , शोकाकुलानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्वन्धनादौ प्रवृ. त्तिदर्शनात् । ननु पुरुषार्थोऽप्ययं ज्ञानमय एव मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्छाद्यवस्थार्थमपि प्रवर्तेतेति चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावेद्यत्वानुपपत्तेः । अस्ति हि श्रुतिः 'दुःखेनात्यन्तं विमुक्तश्वरति' तमेव विदित्वातिमृत्युमेति' इत्यादिका। अनुमानमप्यस्ति-दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि । चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयीकरणात् प्रत्यक्षवेद्यतापि। योगिनां योगजधर्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च । तथापि तुल्यायव्ययतया नायं पुरुषार्थो दुःखवत्सुखस्यापि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेत् उत्सर्गतो दीतरागाणां दुःखदुर्दिनभीणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः। ननु तथापि दुःखनिवृत्तिन पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् अतीतदुःखस्यातीतत्वात् वर्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत्।