________________
(२७)
सदित्याकारकज्ञानं शब्दप्रयोगो वा सत्ताया लिङ्गम् । तच्च द्रव्यगुणकर्मसु समानमविशिष्टम् । तेन भावः सत्ता एकैव तेषु वर्तते अन्यथा द्रव्यत्वादिभिस्तुष्यव्यक्तिकतया सत्ता वा न स्यात् तानि वा न स्युः । विशेषलिङ्गाभावाञ्चेति । विशेषो भेदोस्तत्र यल्लिङ्गमनुमानं तदभावाच्च न भेद इत्यर्थः । भवति हि स एवायं दीप इत्यनुगमस्तव यथा विशेषलिङ्ग दीर्घहस्वत्वादिपरिमाणभेदस्तथात्र विशेषलिङ्गं नास्तीति भावः ॥ १७ ॥"
प्रशस्तपादभाष्यं च-" तत्र सत्तासामान्य परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकस्मान्नीलद्रव्याभिसम्बन्धात् नीलं नीलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्संदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । सत्तानुसम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः तस्मात् सा सामान्यमेव ।' ___अत्रैव श्लोके मुक्तिः ‘न संविदानन्दमयी' इत्यादिना खण्डिता तदर्थं मुक्तिस्वरूपं वैशेषिकसूत्रोपस्कारे १-१-४.
'निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः । दुःखनिवृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमानकालीनत्वम् , युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा । अशेषविशेषगुणध्वंसा वधिकदुःखप्रागभावो वा मुक्तिः । न चासाध्यत्वान्नायं पुरुषार्थः कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात् । न च तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात् । जनकत्वञ्च स्वरूपयोग्यतामात्रम् । नहि प्रागभावश्चरमसामग्री येन तस्मिन् सति कार्यमवश्यं भवेत् तथा सति कार्यस्याप्यनादित्वप्रंसगात , तथा च यथा सहकारिविरहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति, 'हेतूच्छेदे पुरुषव्यापारात' इत्यस्यापि प्रागभावपरिपालन एव तात्पर्यात् । अत एव गौतमीयद्वितीय. सूत्रे — दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा. पायादपवर्गः' इत्यत्र कारणाभावात् कार्याभावाभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति । नहि दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापायः इत्यपायो ध्वंसः । किन्त्वनुत्पत्तिः । सा प्रागभाव एव ।