________________
ननु द्रव्यगुणकर्मभ्यः पृथक्भावेन सत्ता नानुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता यतो हि यद् भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ॥ १-२-८ ॥
द्रव्यादयोऽननुगताः सत्ता चानुगता । तथा च अनुगतत्वाननुगतत्वलक्षणाविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् । घटपटयोस्तु युतसिद्धिः । न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अनुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वादिभिरपि गतम् । अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्वयवहारोपपत्तौ किं सत्तयेत्यपास्तम् । अत एवार्थक्रियाकारित्वं प्रामाणिकत्व वा सत्त्वमित्ययुक्तं तदननुसन्धानेऽपि सत् इति प्रत्ययात् ।।८॥
भेदकान्तरमाह
गुणकर्मसु च भावान्न कर्म न गुणः ॥ १-२-९ ॥
न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाभिधानं न द्रव्यमित्यपि सूचयति । न हि कर्मसु वर्तते न वा गुणो गुणेषु न वा द्रव्यं गुणे कर्मणि वा,सत्ता तु गुणे कर्मणि च वर्तते न द्रव्यगुणकर्मवैधात्तेभ्यो भिन्नैव सत्ता ॥९॥
भेदकान्तरमाहसामान्यविशेषाभावेन च ॥१-२-१०॥
यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाश्चिदनुभवः ॥ १० ॥
ननु सत्ता द्रव्यगुणकर्मसु वर्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न स्यादत आहसदितिलिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैको भावः ॥१-२-१७॥