________________
(२५)
स पुनरात्मेश्वरसम्बन्धः किं व्यापकोऽव्यापको वा इति । अर्थाभावादव्याकरणीयः प्रश्नः । आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । स पुनरीश्वरात्मानौ व्याप्नोति न व्याप्नोतीति न व्याक्रियते । येऽप्यजं संयोगोपपत्तेरस्ति सम्बन्धः यानि प्रत्यात्ममनांसि सर्वाणीश्वरसंबद्धानीत्यतः सम्बद्धसम्बन्धोपपत्तेरात्मान्तराण्यधितिष्ठति यथात्महस्तसंयोगप्रयनाभ्यां हस्ते कर्म भवति उत्पन्नकर्मको हस्तः सन्दंशादिना सम्बध्द्यते तत्सम्बन्धादयःपिण्डाद्यधितिष्ठति । यदि तर्हि सर्गादावीश्वरस्य कारणत्वेऽयं न्यायोऽभिहितः इदानीमीश्वरो न कारणमिति प्राप्तम् ? इदानीमपि स एव न्यायः-मृतशरीरिणां यौ धर्माधर्मों तौ बुद्धिमत्कारणाधिष्ठिताविति समानो न्यायः । बुद्धिमत्कारणाधिष्ठितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्वन्तानि प्रवर्तन्ते अचेतनत्वाद्वास्यादिवत् । एवं कार्यत्वात तृणादीनि पक्षीकृत्य दर्शनस्पर्शनविषयत्वादिति वक्तव्यम् । एवं यत्र यत्र विप्रतिपत्तिः कार्यत्वं च तत्तदनेनैव न्यायेनानेन दृष्टान्तेन वास्यादिना पक्षयित्वा साधयितव्यम् । आगमाञ्च- आगमादपि श्रूयते ईश्वरः कारणम
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।। यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्व निमीलति ॥ इति ईश्वरोपादानताप्रकरणम् ।'
श्लो. ८ स्याद्वादमञ्जर्यां सत्तायाः खण्डनं तदर्थं सत्ताप्रतिपादकानि कणादसूत्राणि (१-२-७ मारभ्य ११ पर्यन्तम् १-२-१७ च) प्रशस्तपादभाष्यं च ।
" सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाहसदिति यतो द्रव्यगुणकर्मसु सा सत्ता ॥ १.२.७॥
इतिकारेण प्रत्ययव्यवहारयोः प्रकारमुपदिशति । तथा च द्रव्यादिषु त्रिषु सत्सदिति-प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारक: शब्दप्रयोगो वा यदधीनः सा सत्ता ॥७॥