________________
(२२) स्यात् । अथ नित्यान् शरीरादीन् कल्पयसि ? एवमपि दृष्टविपरीतं कल्पितं भवति दृष्टविपर्ययं प्रतिपद्यमानेन बुद्धेर्नित्यत्वं प्रतिपत्तव्यम् । अथ सन्तानवर्तिनीमनेकां बुद्धिमीश्वरे प्रतिपद्यसे ? एवमपि न युगपदुत्पादः स्थावरादीनां प्राप्नोति । अथ (ताः) सन्तानवर्तिन्यः सर्वार्थाः बुद्धयो भवन्ति ? एवमपि दृष्टविपरीतं कल्पितं भवति । एवं च कल्पयता बुद्धिनित्यत्वमेव प्रतिपत्तव्यम् । एतावच्चैतत्स्यात् नित्या वा सन्तानवर्तिनी ( वा सन्तानवर्तिनी ) न युक्ता । यदि गुणभेदाढ़ेदः यदभिन्नगुणं तदेकं प्राप्नोति यथा दिक्कालाविति ? नानेकान्तात-गुणभेदान्नानात्वं ब्रूमः न पुनर्गुणाभेदादेकत्वमिति–तथाहि अभिनगुणानां घटादीनां नानात्वमिति, दिकालयोर्गुणाभेदेऽपि कार्यभेदानानात्वमिति । न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थातीतानागतवर्तमानविषया प्रत्यक्षा नानुमानिकी-न तत्रानुमानं नागम इति, ज्ञाननित्यत्वाञ्च न संस्कारः-नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति संस्काराभावाद बुद्धिनित्यत्वाच्च न स्मृतिः, स्मृत्यभावाच्च नानुमानं, न दुःखधर्मस्याभावात् , अत एव न वैराग्यमिति दुःखाभावान विरज्यत इति, अत एव न द्वेषो दुःखाभावादिति । इच्छा तु विद्यतेऽक्लिष्टाव्याहता सर्वार्थेषु यथा बुद्धिरिति ।
अथ किमयं बद्धो मुक्त इति ? । न बद्धो दुःखाभावादेव, अबद्धत्वान मुक्त इति—बन्धवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । आत्मान्तराणामसम्बन्धादधिष्ठातृत्वमनुपपन्नमिति चेत् ? अथ मन्यसेऽर्थान्तरसमवायिनो ये धर्माधर्मास्ते न साक्षादीश्वरेण सम्बद्धचन्ते न पारम्पर्येण न चासम्बद्धमधिष्ठातुं शक्यते न चानधिष्ठितयोर्धमाधर्मयोः प्रवृत्तिर्युक्तेति ? । तच्च न, अजसम्बन्धोपपत्तेः-अजः सम्बन्धः आत्मान्तराणामित्येक इच्छन्ति न चैतदिह प्रतिषिध्यत इति अप्रतिषेधादुपात: स इति । ते त्वजं सम्बन्धं प्रमाणतः प्रतिपादयन्ति व्यापकैराकाशादिभिः सम्बद्ध इश्वरः मूर्तिद्रव्यसम्बन्धित्वात् घटवदिति--यथा घटादि मूर्तिमता घटादिना सम्बन्धित्वेन व्यापकैराकाशादिभिः सम्बद्धयते तथेश्वरोऽपि मूर्तिमत्सम्बन्धीति तस्मादयमपि व्यापकैराकांशादिभिः सम्बचत इति ।