________________
(२१)
सान्निध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः, स खलु प्रवर्तमानो धर्माधर्मयोः परिपाककालमपेक्षते कारणान्तरोत्पादं तद्भागिनां च सत्त्वानां तत्र सन्निधानं तद्भागिसत्त्वधर्माधर्मपरिपाकं च तदप्रतिबंधं चेति ।
यत् तदीश्वरम्यैश्वर्यं किं तन्नित्यमनित्यमिति ? । यद्यनित्यं तस्य कारणं वाच्यं यस्य चानित्यमैश्वर्यं तस्य कारणं भेदो भवति अणिमादेः एवमन्येषामपीत्यनेक ईश्वरः प्रसज्यत इति ? । अथानेकत्वे किं बाध्यत इति ? एकस्मिन वस्तुनि व्याहतकामयोरीश्वरयो प्रवृत्तिन प्राप्नोति अथैकमितर अतिशेते ? योऽतिशेते स ईश्वरः नेतरः इति । अथ नित्यमैश्वर्यम् ? धर्मवैयर्थ्यं न तद्धर्माद्भवति इति नित्यमिति ब्रूमः । न च धर्मवैयर्थ्य दोषः तस्य यो धर्म ईश्वरे नासौ तत्रैश्वर्यं करोति, किन्तु प्रत्यात्मवृत्तीन् धर्माधर्मसन्निचयाननुगृह्णाति, न चेश्वरे धर्मोऽस्तीत्यचोद्यमेतत् ।। ___तत्स्वभावानवधारणात् सन्देहः ईश्वरः किं द्रव्यमाहो गुणादीनामन्यतम इति ? द्रव्यं बुद्धिगुणत्वात् द्रव्यान्तरवत् । बुद्धिमत्वात्तर्हि आत्मान्तरमिति ? नात्मान्तरं गुणभेदात्-तद्यथा गुणभेदे सति पृथिव्यादयो नात्मानः तथा गुणभिन्न ईश्वरस्तस्मादसावपि नात्मान्तरमिति । कः पुनरेतस्य भेदः ? । एके तावत् ब्रुवते धर्मज्ञानवैराग्यैश्वर्याण्यतिशयवन्ति तस्मिनिति नित्यत्वमतिशयः । एतत्तु न बुद्धयामहे यथा बुद्धिमत्तायामीश्वरस्य प्रमाणसद्भावो न चैवं धर्मादिनित्यत्वे प्रमाणमस्ति, न चाप्रामाणिक प्रतिपत्तुमशक्यं, अतिशयस्तु बुद्धिनित्यत्वं गुणभेदः तत्र हि नित्या बुद्धिः सङ्घचादयश्च सामान्यगुणाः पड्गुण आकाशवदीश्वर इति । अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? । नन्विदमेव-बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्त इति ? । बुद्धिमत्तायामेतत् साधनं सा पुनर्नित्येति कुतः ? । प्रत्यर्थनियमासम्भवातू-ये खलु प्रत्यर्थनियता बुद्धिभेदास्ते शरीरादिकारणसन्निधाने सति भवन्ति, न त्वियं प्रत्यर्थनियता युगपदनेककार्योत्पत्तिदर्शनात् यथा स्थावरभेदस्यानेकस्य युगपदुत्पाद इति स च प्रत्यर्थनियतबुद्धिभेदेष्वीश्वरस्य न युक्तः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धय एव तस्य गुणाः । अथ बुद्धिमत्त्येश्वरस्य शरीरयोगमपि प्रतिपद्यते ? तेनापि प्रतिपद्यमानेन शरीरादयो नित्या अनित्या वा अवश्यमेषितव्याः । यद्यनित्या धर्माधर्मसद्भावोऽभ्युपेयः तदभ्युपगमे च तत्तन्त्रत्वादीश्वरो नेश्वर