________________
( २० )
मनःसंयोगशुद्धाशुद्धाभिसन्धिसाधनश्च धर्माधर्मी, सुखदुःखस्मृत्यपेक्ष: तत्साधनाद्यपेक्षश्च शुद्धमशुद्धं चाभिसन्धिमिति । यदा करोति तदा साधनस्याकर्तेति चेत् ? - अथ मन्यसे यदायं साध्यं (यत्) किंचिद् दृष्टं निर्वर्तयति तदा न साधयति तस्याकती प्रसज्यत इति । नैतदेवम् । न ब्रूमः सर्वानर्थानयमेकस्मिन् काले करोतीति । अपि तु पर्यायेण । पर्यायकर्तृत्वे चायमदोषः यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् । अथ मन्यसे यदि शरीरादिकर्तृत्वं धर्माधर्माद्यपेक्षस्य, अथ यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत्-अनादिः संसार इति प्रतिपादितमेतत्, धर्माधर्मसाफल्यं चैवम् । यदि चानादिः संसारः सापेक्षश्च कर्ता, एवं प्राण्यन्तरसमवायिनां धर्माधर्माणां साफल्यम् ।
"
अथायमीश्वरः कुर्वाणः किमर्थं करोति ? - लोके हि. ये कर्तारो भवन्ति ते कचिद्दिश्य प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेतिं, न पुनरीश्वरस्यं हेयमस्ति दुःखाभावात् नोपादेयं वशित्वात् ? । क्रीडार्थमित्येके - एके तावत् ब्रुवते क्रीडार्थमीश्वर: सृजतीति ? नन्वेतदयुक्तम् । क्रीडा हि नाम रत्यर्थं भवति विना क्रीडया रतिमविन्दताम् न च रत्यर्थी भगवान् दुःखाभावादिति । दुःखिनश्च सुखोपगमार्थं क्रीडन्ति । विभूतिख्यापनार्थमित्यपरे - जगतो वैश्वरूप्यं ख्यापनीयं इत्यपरे मन्यन्ते । एतदपि तादृगेवनहि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चास्याख्यापनेन किञ्चिद्धीयत इति । किमर्थं तर्हि करोति ? तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टम् । यथा भूम्यादीनि धारणादिक्रियां तत्स्वाभाव्यात्कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात्प्रवर्तत इति प्रवृत्तिस्वभावकं तत्तत्त्वमिति ।
तत्स्वाभाव्यात् सततप्रवृत्तिः इति चेत् ? - अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तिर्युज्यत इति क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्वात् इदमिदानीं भवत्विदामिदानीं न भवत्विति न युक्तम्- न ह्येकरूपात् कारणात्कार्यभेदं पश्याम इति ? । नैष दोषः । बुद्धिमत्वेन विशेषणात् बुद्धिमत्तत्त्वमिति प्रतिपादितम् - बुद्धिमत्तया च विशिष्यमाणं सापेक्षं च न सर्वदा प्रवर्तते- न सर्वमेकस्मिन्काले उत्पादयति यस्य कारणसान्निध्यं तद्भवति यदसन्निहितकारणं तन्न भवति, न च सर्वस्य युगपत्कारण