________________
(१९)
क्रियानावेशादकारणमिति चेत् ? अथ मन्यसे ये खलु कर्तारो भवन्ति ते क्रियाविशिष्टाः कुलालादय इति, क्रियारहितश्वेश्वरस्तस्मादकारणमिति ? न विकल्पानुपपत्तेः । ईश्वरो निष्क्रिय इति कां क्रियां अधिकृत्योच्यते ? द्वयी हि नः क्रिया उत्क्षेपणादिका चाख्यातशब्दवाच्यां च । यद्याख्यातशब्दवाच्यामधिकृत्योच्यते ? तदाऽसिद्धो हेतुः स्वातन्त्र्याभ्युपगमात् स्वातन्त्र्यं हि भगवति नित्यमस्ति । किं पुनः स्वातन्त्र्यम् ? अन्य कारकाप्रयोज्यत्वामितरकारकप्रयोक्तृत्वं च तदुक्तं कारकाणि वर्णयद्भिरिति । अथोत्क्षेपणादिकामधिकृत्योच्यते निष्क्रिय इति ? तदानेकान्तः - क्रियावच्च कारणं दृष्टं निष्क्रियं चेति - कदाचिद्रव्याणि उपरतक्रियाणि द्रव्यमारभन्ते संयोगात् निवृत्ते कर्मणि संयोगोपकरणानि द्रव्याणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । यदा च युगपद्बहूनि द्रव्याणि संहन्यन्ते तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य एकमेव द्रव्यमुत्पद्यते । एकावयवविभागे तु द्रव्यनिवृत्तौ शेषाणि द्रव्यान्तराणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । कानिचित्पुनः क्रियावन्त्यारभन्ते यदान्यतरकर्मजात् संयोगानिवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव द्रव्यमुत्पद्यते तदा क्रियावता द्रव्येणारम्भात् क्रियावतामारम्भः विरोधश्चोत्क्षेपणादिकायाः क्रियाया अनभ्युपगमादिति ।
न कारणमीश्वरः विकल्पानुपपत्तेः- कर्ता चेद ईश्वरः किं सापेक्षः करोति उत निरपेक्ष इति ? किं चातः ? यदि सापेक्ष: ? येन करोति तस्याकर्ता, एबमन्यत्रापि प्रसङ्गः । तदपि साधनं येन करोति तस्याकर्तेति, अथायं चिनपेक्ष्य करोति ? तद्वदन्यत्रापि प्रसङ्गः - अथायं सर्वमनपेक्ष्य करोति एवमपि पुरुषकर्माकलं भवेत् अनिर्मोक्षश्च प्रसज्येत यश्चाकर्मनिमित्ते सर्गे दोषः स इहापि प्रसज्यत इति ? निरपेक्षकर्तृत्वस्यानभ्युपगमात् धर्माधर्मविफलत्वादिदोषो नास्ति न चाकर्मनिमित्ते सर्गे दोष इति । येन करोति तस्याकर्तेति चेत् ? नानेकान्तात् नायमेकान्तोऽस्ति यो येन करोति स तन्न करोतीति यथाऽनेकशिल्पपर्यवदातः पुरुषः करणान्तरोपादानो वास्यादि करोति, वास्याद्युपादानो दण्डादि करोति, तदुपादानो घटादि, न च पर्यायकर्तृत्वे सति अकर्तृत्वं तथेश्वरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखादि, भात्म