________________
(१८) - य परमाणून पुरुषकर्माधिष्ठितान जगतः कारणत्वेन वर्णयन्ति तान प्रतीदमुच्यते परमाणवः प्रवर्तन्त इति सततं प्रवृत्त्या भावितव्यम् । अथ कालविशेषापेक्षाः प्रवर्तन्ते ? परमाणुभिः कालो व्याख्यातः-यथा परमाणवो बुद्धिमन्तमधिष्ठातारमपेक्षन्ते तथा कालोऽपीति, न हि तत्राचेतनत्वं निवर्तत इति । क्षीरादिवदचेतनस्यापि प्रवृत्तिरिति चेत् ? यथा अपत्यभरणार्थ क्षीरादेरचेतनस्यापि प्रवृत्तिरेवं परमाणवोऽप्यचेतनाः पुरुषार्थं प्रवर्तिष्यन्त इति ? । तत्तु युक्तम् , साध्यसमत्वात् यथैव परमाणवः स्वतन्त्राः प्रवर्तन्त इति साध्यं तथा क्षीराद्यचेतनं स्वतन्त्र प्रवर्तत इति । यदि क्षीरादि स्वतन्त्रं प्रवर्तेत मृतेष्वपि प्रवर्तेत, न तु प्रवर्तते, अतोऽवगम्यते बुद्धिमत्कारणाधिष्ठितं तदपि । न चायं हेतुः तस्मान्निवर्तते एवं यावद्यावदचेतनं प्रवर्तते ( तत् ) सर्वं तत् चेतनाधिष्ठितमिति । अयमपरो हेतुः बुद्धिमत्कारणाधिष्ठितं महाभूतादि व्यक्तं (मिति ) सुखदुःखादिनिमित्तं भवति रूपादिमत्वात् तुर्यादिवदिति । धर्माधर्मी बुद्धिमत्कारणाधिष्ठितौ पुरुषस्योपभोगं कुरुतः करणत्वाद्वास्यादिवदिति । आत्मैवाधिष्ठाता धर्माधर्मयोर्भविष्यतीति चेत् ? यस्य तौ धर्माधौं स एवाधिष्ठाता भविष्यतीति न युक्तम् ? प्राक् कार्यकरणोत्पत्तेः तदसम्भवात्-यावत् कार्यकारणसंघातो नोपजायते पुरुषस्य तावदयमज्ञः उपसन्धातापि उपलभ्यानपि तावद्रूपादीमोपलभते कुतोऽनुपलभ्यौ धर्माधर्मावुपलप्स्यत इति । यदि पुरुषः स्वतन्त्रः प्रवर्तते न दुःखं कुर्यात् न हि कश्चिदात्मनो दुःखमिच्छतीति । यश्चात्मनो (ऽङ्गो) पघातं शिरश्छेदादि वा करोति तद्वैकल्ये प्रायणे वा हितबुद्धिः प्रवर्तत इति । यदि पुनर्धर्माधर्माभ्यामेवाधिष्ठिताः परमाणवः प्रवर्तेरन् ? न युक्तमेतदचेतनत्वात्-न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माधर्मयोः परमाणुप्रवृत्तिसामर्थ्य ? न करणस्य क्रियानिवृत्तावसामर्थ्यात-न नहि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते ? तदपि न युक्तमदृष्टत्वात्नहि कर्मकरणाभ्यां क्रियां जन्यमानां कचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति ? उक्तमेतदज्ञत्वादिति । अकारणोत्पत्तिर्भविष्यतीति ? न युक्तमदृष्टत्वादिति। न चान्या गतिरस्ति, तस्माद् बुद्धिमत्कारणाधिष्ठिताः परमाणवः कमोणि च प्रवर्तन्त इति ।