________________
(१७) न्यायोऽभिधीयते प्रधानपरमाणुकर्माणि प्राक्प्रवृत्तेबुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्यादिवदिति-यथा वास्यादि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते तस्मात् तान्यपि बुद्धिमत्कारणाधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्ति-पुरुषार्थेन प्रयुक्तं प्रधान प्रवर्तते, पुरुषार्थश्च द्वेधा भवति शब्दाद्युपलब्धिर्गुणपुरुषान्तरदर्शनं चेति तदुभयं प्रधानप्रवृत्तेविना न भवतीति? न, प्राक्प्रवृत्तेस्तदभावात्-यावत्प्रधानं महदादिभावेन न परिणमते तावन्न शब्दाद्युपलब्धिरस्ति न गुणपुरुषान्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तिरयुक्ता । अथास्ति, नासदात्मानं लभते न सन्निरुध्द्यत इति ? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्था. (य) प्रधानस्य प्रवृत्तिः-न हि लोके यद्यस्य भवति स तदर्थं पुनर्यतत इति । सततं च प्रवृत्तिः प्राप्नोति कारणस्य सन्निहितत्वादिति-पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति ? न तर्हि पुरुषार्थः कारणमिति यस्याभावात् प्रधानं न प्रवर्तते यस्य च भावात् प्रवर्तते तत्कारणमिति । अथ विद्यमानः प्रतिबन्धान प्रवर्तयति ? प्रतिबन्धापगमस्याशक्यत्वात् सततमप्रवृत्तिः-यत्तत्र प्रतिबन्धकारणं पुरुषार्थस्य तस्यापगमः कर्तुमशक्यः न सदात्मानं जहातीति प्रतिबन्धकस्य नित्यत्वान्नित्यमप्रवृत्त्या भवितव्यम् । यदा भवन्तः सत्त्वरजस्तमसां साम्यावस्थां प्रकृति वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् ? न चानिवृत्तायां साम्यावस्थायां वैषम्येण शक्यं भवितुम् । अथाङ्गाङ्गिभावस्यानियमाद्वैषम्यं भवतीति ? अत्रापि भवन्तं पर्यनुयुक्ष्महे कथं साम्येनावस्थितमधिकं हीनं च भवति ? नापूर्वोपचये विद्यते न पूर्वहानमस्तीति । यांश्च शब्दादीन् प्रागनुपलब्धस्वरूपान् पुरुषमुपलभते बुद्धिरुपलम्भयति ते किमुपजातविशेषा उतानुपजातविशेषा इति ? यापजातविशेषा उपलभ्यन्त इति ? व्याहतं भवति नासदात्मानं लभत इति । अथानुपजातविशेषा एवोपलभ्यन्ते ? तथाप्यनिवृत्तो व्याघातः प्रधानं पुरुषार्थः प्रवर्तयतीति । सोऽयं प्रधानवादो यावद्यावद्विचायते तावत्तावत्प्रमाणवृत्तं बाधत इति ।