________________
(१६) विपाककालः तत्तथा तदा विनियुक्त इति । यः पुनरीश्वरं कर्मानपेक्षं कारणत्वेन प्रतिपद्यते तस्यानिर्मोक्षत्वादिदोषः । सापेक्षे त्वीश्वरे यथोक्तो न दोषः । शेष भाष्ये । ( वात्स्यायनभाष्यम् -' पुरुषकारमीश्वरोऽनुगृह्णाति फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति । यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति । तस्मादीश्वरकारितत्वादहेतुः पुरुषकर्माभावे फलानिष्पत्तरिति । गुणविशिष्टमात्मान्तरमीश्वरः । तस्यात्मकल्पात्कल्पान्तरानुपपत्तिः । अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टमात्मान्तरमीश्वरः । तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । सङ्कल्पाविधायी चास्य धर्मः प्रत्यात्मवृत्तीधर्माधर्मसञ्चयान्पृथिव्यादीनि च भूतानि प्रवर्तयति । एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम् । आत्मकल्पश्चायं यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः सम्भवति । न तावदस्य बुद्धिं विना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम् । आगमाच्च द्रष्टा, बोद्धा, सर्वज्ञाता, ईश्वर इति । बुध्दयादिभिश्वात्मलिङ्गैनिरूपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यंदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरस तत्सर्वं प्रसज्यत इति ।।२१।।')(वार्तिकं पूर्वतोऽनुवृत्तम् ) तत्कारितत्वादित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं भवति । यच्च निमिततदितरयोःसमवायिकारणासमवायिकारणयोरनुग्राहकम् , यथा तुर्यादितन्तूनां तत्संयोगानां चेति । ईश्वरश्चेजगतो निमित्तं जगतः साक्षादुपादानकारणं किम् । उक्तं पृथिव्यादि परमसूक्ष्मं परमाणुसज्ज्ञितं द्रव्य(व्यक्त) मिति । व्यक्तकारणाभ्युपगमे तु सति निमित्तविशेषविप्रतिपत्तौ ईश्वरप्रक्रिया-यस्मानिमित्तकारणे विप्रतिपद्यन्ते केचित् कालं केचिदीश्वरं केचित्प्रकृतिमिति तदेवं निमित्तविशेषविप्रतिपत्तौ किं न्याय्यमिति । ईश्वर इति न्याय्यं तत्र हि प्रमाणानि अविघातेन प्रवर्तन्त इति । अस्तित्वासिद्विरिति चेत् ? अथ मन्यसे सिद्ध ईश्वरस्यास्तित्वे कारणान्तरनिराकरणं निमित्तकारणाभावश्च साध्येत, तत्त्वसिद्धं तस्मादयुक्तमिति ? न, अत एव तदुत्पत्तेः इति-येनैव न्यायेन ईश्वरस्य कारणत्वं सिध्यति तेनैवास्तित्वमिति, न विद्यमानं कारणमिति । कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं