________________
(१५)
किञ्चिदुपादानगोचरत्वातू ,कार्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वसे व्यभिचार इति । तथापि क्षितिः सकर्तृका कार्यत्वात् । अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्यत्वं च प्रागभावावच्छिन्नसत्ताप्रतियोगित्वम् । न चाकुरादौ सन्दिग्धानकान्तिकत्वम् । साध्याभावनिश्चये हेतुसदसत्त्वसन्देहे सन्दिग्धानैकान्तिकत्वस्य दोषत्वात् , अन्यथा सकलानुमानोच्छेदप्रसङ्गात् । न च पक्षातिरिक्ते दोषोऽयमिति वाच्यं राजाज्ञापत्तेः । नहि दोषस्यायं महिमा यत् पक्षं नाकामति। तस्मादकुरस्फुरणदशायां निश्चितव्याप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् । क सन्दिग्धानकान्तिकता तदस्फुरणदशायां तु सुतरामिति संक्षेपः” ॥ १९ ॥ ___एवमेव नैयायिकमतम्-गौतमसूत्रवात्स्यायनभाष्ये न्यायवार्तिके अ. ४-१-१९,४-१-२०, ४-१-२१ ।
'अपर इदानीमाह'- .. 'ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥४-१-१९॥
ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । पुरुषोऽयं समीहमानो नावश्यं समीहाफलमाप्नोति तेनावगम्यते पराधीनं पुरुषस्य कर्मफलाराधनमिति । निरपेक्षश्चेत् पुरुषः कर्मफलभोगे समर्थः स्यात् न कस्यचिदफला क्रियां भवेत् । न कश्चिदुःखं कुर्यादिति । उभयं च दृष्टं तस्मादीश्वरः • कारणमिति ॥ १९॥
नं पुरुषकर्माभावे फलानिष्पत्तेः ॥४-१-२० ॥ न पुरुषकर्माभावे फलानिष्पत्तरिति । ईश्वरश्चेत कारणं स्यात् पुरुषकर्मान्तरेणापि सुखदुःखोपभोगौ स्याताम् । ततश्च कर्मलोपोऽनिर्मोक्षश्च । ईश्वरस्यैकरूपत्वादेकरूपा क्रियेति । अथेश्वरः कारणभेदानुविधानेन कार्य निवर्तयति यदपेक्षते तन्न करोतीति प्राप्तम् । नहि कुलालो दण्डादि करोति। एवं कर्मसापेक्षश्चेदीश्वरो जगदुत्पत्तिकारणं स्यात् कर्मणीश्वरोऽनीश्वरः स्यात् ।। २० ॥
तत्कारितत्वादहेतुः ॥४-१-२१॥ .. तलारितत्वादहेतुः । न ब्रूमः कर्माद्यनपेक्ष ईश्वरः कारणमिति । अपितु पुरुषकर्म ईश्वरोऽनुगृहाति । कोऽनुप्रहार्थः ? यद्यथाभूतं यस्य च अदा