________________
(१४)
द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः अत एवातीन्द्रियः सत्तादीनामेव प्रत्यक्षेषु वृत्त्यभावात् स्वात्मगतसंवेदनाभावाच्च । तस्मादिहबुध्द्यनुमेयः समवाय इति' ॥ __ श्लो. ६ स्याद्वादमञ्जर्यां च ईश्वरकर्तृकत्वादि खण्ड्यते तदर्थं तद्विषयकं वैशेषिकमतं प्रदर्श्यते
कणादसूत्रे (अ. २-१,१८,१९.) उपस्कारसहिते। . 'संज्ञा कर्म त्वस्माद्वाशष्टानां लिङ्गम् ॥ २-१-१८ ॥
तुशब्दः स्पर्शादिलिङ्गव्यवच्छेदार्थः संज्ञा-नाम, कर्म- कार्य मित्यादि, तदुभयमस्मद्विशिष्टानाम् ईश्वर-महर्षीणां सत्त्वेऽपि लिङ्गम् ॥ १८॥
कथमेतदित्यत आह- . प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ॥ २-१-१९ ॥
अत्रापि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाभेदसूचनार्थः । तथाहि यस्य स्वर्गापूर्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्वादिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवत् । एवञ्च : घटपटादिसंज्ञानिवेशनमपि ईश्वरसङ्केताधीनमेव यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः यथा या काचिदोषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वापि सर्पविषं हन्तीत्येताहशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं यापि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते सापि 'द्वादशेऽहनि पिता नाम कुर्यात् ' इत्यादिविधिना नूनमीश्वरप्रयुक्तैव । तथा च सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् । एवं कर्मापि। कार्यमपीश्वरे लिङ्गम् । तथाहि क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति । अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वास. कर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्वातिप्रसक्तत्वेन पक्षसानवच्छेदकत्वात् , किञ्च सकर्तृकत्वमपि यदि कृतिमज्जन्यत्वं तदास्मदादिना सिद्धसाधनम् । अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात् , उपादानगोचरकृतिमज्जन्यत्वेऽपि तथास्मदादिकृतेरपि