________________
(२९) तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थं प्रवृत्त्युपपत्तेः ।
ननु नित्यसुखाभिव्यक्तिरेव मुक्तिन्तु दुःखभाव इति चेन्न नित्यसुखे प्रमाणाभावात् , भावे वा नित्यं तदभिव्यक्तेभुक्तसंसारिणोरविशेषापातात अभिव्यक्तरुत्पाद्यत्वेन तन्निवृत्तौ पुनः संसारापत्तेश्च ।
ब्रह्मात्मनि जीवात्मलयो मुक्तिरिति चेन्न लयो यद्येकीभावस्तदा बाधात् नहि द्वयमेकं भवति । लिङ्गशरीरापगमो लयो लिङ्गश्चैकादशेन्द्रियाणि तेषां शरीरस्य च विगमो लय इति चेन्न एतावता दुःखसामग्रीविरहस्योक्तत्वात् तथा च दुःखाभाव एव मुक्तिरिति पर्यवसानात् । एतेनाविद्यानिवृत्तौ केवलात्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखात्मकः इत्येकदण्डिमतमपास्तम् । आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिर्मानम् । तस्या ज्ञानवस्वानन्दवत्त्वप्रतिपादकत्वात्। भवति हि अहं जाने अहं सुखीति प्रतीतिः नत्वहं ज्ञानं अहं सुखमिति । किञ्च ब्रह्मण इदानीमपि सत्त्वात् मुक्तसंसारिणोरविशेषापत्तिः अविद्यानिवृत्तेश्चापुरुषार्थत्वात् ब्रह्मणश्च नित्यत्वेनासाध्यत्वात् , तत्साक्षात्कारस्य तदात्मकत्वेनासाध्यत्वात , एवमानन्दस्यापि तदात्मकत्वेनासाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव।
निरुपप्लवा चित्सन्ततिर्मुक्तिरिति चेन्न । दुःखादिरूपस्य उपप्लवस्य विगमो यदि निरुपप्लवत्वं तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्ती प्रमाणाभावः तदनुवृत्तेरपि शरीरादिसाध्यत्वेन संसारानुवृत्तेरावश्यकत्वादिति सिद्धं दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति ।।
श्लो. ९ स्याद्वादमञ्जर्यामात्मनो विभुत्वस्य खण्डनं तदर्थमात्मनो विभुत्वं प्रशस्तपादभाष्ये आत्मप्रकरणे-'तथा चात्मेतिवचनात्परममहत्परिमाणम्'। - किं च गौतमसूत्रेषु वात्स्यायनभाष्ये-(३-२-२०,२१)
'योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु तेषु युगपज्ज्ञेयानुपलभते । तच्चैतद्विभौ ज्ञातर्युपपद्यते नाणौ मनसीति । विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः । विभु