________________
मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत्संयोगाद्युगपज्ज्ञानान्युत्पघेरनिति ॥२०॥
तदात्मगुणत्वेऽपि तुल्यम् ॥ ३-२.२१ ॥ विभुरात्मा सर्वोन्द्रयैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति॥२१॥
तत्रैव स्याद्वादमञ्जर्यां (पृ. ६१) 'त्वयात्मनां बहुत्वमिष्यते' इत्यादिनात्मनानात्वं खण्ड्यते तदर्थ आत्मनानात्वं प्रशस्तपादभाष्ये-आत्मनिरूपणे-'व्यवस्थावचनात्संख्यापृथक्त्वमप्यत एव' ।
वैशेषिकसूत्रोपस्कारे ( ३-२-२०) 'सिद्धान्तमाह- व्यवस्थातो नाना ।। ३-२-२०॥
नाना आत्मानः कुतः व्यवस्थात: । व्यवस्थाः प्रतिनियमः यथा काश्चदान्यः, कश्चित् रङ्कः, कश्चित्सुखी, कश्चिदुःखी कश्चिदुच्चाभिजनः, कश्चिन्नीचाभिजनः, कश्चिद्विद्वान् , कश्चिज्जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणानुपपद्यमाना साधयत्यात्मनां भेदम् । न च जन्मभेदेन बाल्यकौमारवार्धक्यभेदेन वा, एकस्याप्यात्मना यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यम् । कालभेदेन विरुद्धधर्माध्याससम्भवात्॥२०॥
श्लो. १० स्याद्वादमञ्जर्यां छलादिविषये यदुक्तं तज्ज्ञानार्थं छलादिप्रतिपादकानि न्यायसूत्राणि १०-२० (अ. १।२।१०--२०) 'वचनविघातोऽर्थविकल्पोपपत्या छलम् ॥ १-२.१० ।। तत्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ॥१-२-११॥ आविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥१-२-१२॥ मम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यछलम् ॥ १-२-१३॥ धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ॥ १-२-१४॥ वाक्छलमेवोपचारछलं तदविशेषात् ॥१.२-१५ ॥