________________
( ३१ )
न तदर्थान्तरभावात् ।। १-२-१६ ॥ अविशेषे वा किञ्चित्साधम्र्म्यादेकच्छल प्रसङ्गः ।। १-२-१७ ॥ साधर्म्यवैधम्याभ्यां प्रत्यवस्थानं जातिः ।। १-२-१८ ।। विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १-२-१९ ।। तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ।।१-२-२० ।।
तत्रैव (पृ. ७० ) प्रमाणप्रमेयलक्षणविषये यदुच्यते तदर्थं न्यायसूत्रे भाष्ये - (पृ. ९४ पं. ४/५ ) उपलब्धिहेतुश्च प्रमाणम् । प्रमेयं तूपलब्धिविषयः तथा च प्रमेयविषयेऽन्यत्र १ । १ ९ गौतमसूत्रं - सभाष्यम् 'किं पुनरनेन प्रमाणेनार्थजातं प्रमातव्यमिति तदुच्यते-- आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषमेत्यभावं फलदुःखापवर्गास्तु प्रमेयम् ॥१-१-९॥
तन्त्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी । तस्य भोगायतनं शरीरम् । भोगसाधनानीन्द्रियाणि । भोक्तव्या इन्द्रियार्थाः । भोगो बुद्धिः । सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरणं मनः । शरीरेन्द्रियार्थबुद्धिसुखदुःखवेदनानां निवृत्तिकारणं प्रवृत्तिदोषाश्च । नास्येदं शरीरमपूर्वमनुत्तरं च । पूर्वशरीराणामादिर्नास्ति, उत्तरेषामपवर्गोऽन्त इति प्रेत्यभावः । ससाधनसुखदुः खोपभोगः फलम् । दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानं किं तर्हि जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गाद्दः खेनाविप्रयोगः, द्विविधबाधनायोगाद् दुःखमिति । समाधिभावनमुपदिश्यते । समाहितो भावयति भावयन्निर्विद्यते निर्विण्णस्य वैराग्यं विरक्तस्यापवर्ग इति जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणमपवर्ग इति । अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयं तद्भेदेन चापरिसङ्क्षेयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यतः एतदुपदिष्टं विशेषेणेति ।। ९ ।। '
तत्रैव (पृ. ७३) जातिश्चतुर्विंशतिविधा निग्रहस्थानं द्वाविंशतिविधं हेत्वाभासाञ्च पञ्च खण्डितास्तदर्थं तेषां सर्वेषां स्वरूपं प्रदर्श्यते ( गौ. सू. अ. ५ संपूर्णः अ. १।२।४ - ९)