________________
(३२) 'साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावविकल्पसौंध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ।। ५-१-१ ॥ ___ साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ ५-१-२ ॥
गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥५-१-३ ॥
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यवर्ण्यविकल्पसाध्यसमाः ।। ५-१-४ ।।
किञ्चित्साधादुपसंहारसिद्धेवैधाप्रतिषेधः ॥ ५-१-५ ।। साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ।। ५-१-६ ।।
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ।।५-१-७ ॥ .
घटादिनिष्पत्तिदर्शनात्पीडने चाभिचारादप्रतीषेधः ॥ ५-१.८ ॥ .. दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥५-१-९॥
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विानिवृत्तिः ॥ ५-१-१० ।। प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ।।५-१-११ ।। प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ ५-१-१२ ।। तथाभावादुत्पन्नस्य कारणोपपत्तेन कारणप्रतिषेधः ।। ५-१-१३।। सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसमः ॥५-१-१४॥
साधर्म्यात्संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ।। ५-१-१५ ।।
उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥५-१-१६ ॥ प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ।।५-१-१७।। त्रैकाल्यासिद्धेहेतोरहेतुसमः ॥ ५-१-१८ ॥ न हेतुतः साध्यसिद्धखकाल्यासिद्धिः ॥ ५-१-१९ ॥ प्रतिषेधानुपपत्तेः प्रतिषेद्धव्याप्रतिषेधः ॥ ५-१-२० ।।