________________
(३३) अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥५-१-२१॥
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाचार्थापत्तेः ॥ ५-१-२२ ॥
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः ॥५-१-२३ ॥
कचित्तद्धर्मोपपत्तेः कचिच्चानुपपत्तेः प्रतिषेधाभावः ॥ ५-१-२४ ॥ उभयकारणोपपत्तेरुपपत्तिसमः ॥ ५-१-२५ ।। उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ।। ५-१-२६ ॥ निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ।। ५-१-२७ ।। कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ।। ५-१-२८ ॥
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ॥५-१-२९ ॥
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ५-१-३० ॥ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ।।५-१-३१॥ साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥५-१-३२॥ साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधाच्च ॥५-१-३३ ।।
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः ॥५-१-३४ ॥ . नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥५-१-३५ ॥
प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः ॥५-१-३६ ॥
प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ५.१-३७ ।। कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ।।५-१-३८ ॥ प्रतिषेधेऽपि समानो दोषः ॥ ५-१-३९ ॥ सर्वत्रैवम् ।। ५-१-४०॥ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोषः ॥ ५-१-४१ ॥
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥ ५-१-४२ ॥