________________
( ३४ )
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोष इति ॥ ५-१-४३ ॥
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्त रमर्थान्तरं निरर्थकमविज्ञातार्थमपर्थकर्मकालं न्यूनमधिकं पुनरुक्तमननुभाषमज्ञानमप्रतिभा विक्षेपों मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ ५-२-१॥
१ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥५-२-२ ॥ २ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशे प्रतिज्ञान्तरम् 114-2-311
३ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥५- २ - ४ |
४ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ।।५-२-५ ।। ५ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।।५-२-६।। ६ प्रकृतादर्थादप्रति सम्बद्धार्थमर्थान्तरम् ॥५- २ - ७॥
७ वर्णक्रमनिर्देशवान्निरर्थकम् ॥५-२-७॥
८ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ 114-2-911
९ पौर्वापर्या योगादप्रतिसम्बद्धार्थमपार्थकम् ॥५- २ - १०॥
१० अवयवविपर्यासवचनमप्राप्तकालम् ।।५-२-११ ।।
११ हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥५-२-१२॥ १२ हेतूदाहरणाधिकमधिकम् ॥५-२-१३ ॥
१३ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥५-२-१४॥ अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः 'अर्थादापनस्य स्वशब्देन पुनर्वचनम् ॥५- २ - १५ ॥
१४ विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ।। ५-२-१६ ।।
१५ अविज्ञातं चाज्ञानम् ।। ५-२-१७
१६ उत्तरस्याप्रतिपत्तिरप्रतिभा ।। ५-२-१८ ।
१७ कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ।। ५-२-१९॥