SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (३५) १८ स्वपक्षदोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥५-२-२०॥ १५ निग्रहस्थान प्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ ५-२-२१ ॥ २० अनिग्रहस्थानें निग्रहस्थानाभियोगे निरनुयोज्यानुयोगः ।।५-२-२२॥ २१ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः ।। ५-२-२३ ॥ २२ सव्यंभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥ १-२-४॥ १ अनैकान्तिकः सव्याभिचारः ॥ १-२-५ ॥ २ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः || १-२-६ ॥ ३ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥१-२-७॥ ४ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ १-२-८ ॥ ५ कालात्ययापदिष्टः कालातीतः ॥ १२९ ॥ श्लोक ११ स्याद्वादमञ्जर्यं वेदविहितहिंसाविषये यत्खण्डनं तदर्थं मीमांसाग्रन्थनिर्देशः - अ. १।१।२ लोकवार्तिके २१८ - २७६ हिंसा हीति च यच्चापि ब्रूते नाभिचरेदिति । श्येनादीनां स्वरूपे तु नोत्तरग्रन्थसङ्गतिः ।। २१८ ॥ विहितत्वान्निषेधस्य प्रवृत्तिस्तेषु दुर्लभा । यदा तु चोदनाशब्दो विधावेव व्यवस्थितः ॥ २१९ ॥ तदोभयादिको ग्रन्थः साध्यसाधनसंश्रितः । ' साध्यसाधनसम्बन्धे विधिना प्रतिपादिते ॥ २२० ॥ लक्ष्यमाणत्वमुभयो ' द्विविधं च फलं क्रतोः । ' स्वर्गादि प्राप्यते तत्र प्रतिषेधानतिक्रमात् ।। २२१ ॥ अतिक्रमेण हिंसादि ' शाखान्तरनिरीक्षया । फलांशे भावनायाश्च प्रत्ययो न विधायकः ॥ २२२ ॥
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy