________________
वक्ष्यते जैमिनिश्चाह तस्य लिप्सार्थलक्षणा । तेन सामान्यतः प्राप्तो विधिना च निवारितः ॥ २२३ ॥ फलांशोपनिपातिन्या हिंसायाः प्रतिषेधकः । अनर्थप्राप्तिहेतुत्वं बोध्यते तत्र यद्यपि ॥ २२४॥ श्येनस्वरूपं नानर्थस्तत्फलस्य त्वनर्थता। ... परस्तूभयामित्यादेः फलस्यापि विधेयताम् ॥ २२५॥ भावनान्तर्गतत्वाद्वा मत्वानर्थत्वमाक्षिपत् । . . . . नैवेत्येतावता चास्य विधेयत्वनिराक्रिया ॥ २२६ ॥ किं विधेयमिदानीं स्यादाह श्येनादयस्त्विति । 'प्रश्नापाकरणे चात्र तव्यो विधिविवक्षया ॥ २२७॥ प्रयुक्तो न तु साध्येऽर्थे ' द्वयेऽप्यनुप्रयोगतः।। अनर्थस्यापि साध्यत्वमविधेयस्य हीष्यते ॥ २२८॥ साध्यत्वरहिते चेष्टा विधेये नित्यमर्थता। शतुश्च लक्षणार्थत्वं तेषां चाप्युपदेशनम् ॥ २२९ ॥ ब्रुवन् स्फुटीकरोतीष्टमुपदेशो हि नान्यथा । विधित्वमादिशब्दात्स्यादितिकर्तव्यतास्वपि ॥२३०॥ तस्मात्फलांशे या हिंसा वैदिकी सा निषिध्यते । अंशद्वये तु या नाम तनिषेधाभिधायिनाम् ॥ २३१ ॥ अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम् । निषेधेनानवष्टब्धे विषये न ह्यनर्थता ॥ २३२ ॥ प्रत्यक्षादेरशक्यत्वात्कल्प्यते निष्पमाणिका । न हि हिंसाधनुष्ठाने तदानीं दोषदर्शनम् ॥ २३३ ॥ बाह्येऽपि विचिकित्सा तु शास्त्रादेवोपजायते । 'हिंसमानस्य दुःखित्वं दृश्यते यन्न तावता ॥ २३४ ॥