________________
( ३७ )
कर्तुर्दुःखानुमानं स्या' तदानीं तद्विपर्ययः । विषयोऽस्याः फलं यादृक् प्रेत्य कर्तुस्तथाविधम् ॥ २३५ ॥ हिंसा क्रियाविशेषत्वात्स्ते शास्त्रोक्तदानवत् । य एवमाह तस्यापि गुरुस्त्रीगमनादिभिः || २३६ ॥ सुरापानादिभिश्चापि विपक्षैर्व्यभिचारिता । विरुद्धता च यादृग्घि दानैस्तादृक् फलं भवेत् ॥ २३७ ॥ विधिगम्यफलावाप्तिरदुःखात्मकता तथा ।
न च या सम्प्रदानस्य प्रीतिस्तादृक् फलं श्रुतम् ॥ २३८ ॥ दातुस्तेन हि दृष्टान्तः साध्यहीनः प्रतीयते । 'सम्प्रदानं च दाने ते विषयः कर्म हिंसने || २३९ ॥ वैषम्यं सम्प्रदाने तु पक्षस्त्वेतद्विरुद्धता | प्रीयते सम्प्रदानं हि देवतेति मतं तव ॥ २४० ॥ दृष्टान्ते कर्म दानं चेत्तस्य कीदृक् फलं भवेत् । जपहोमादिदृष्टान्तात्परपीडादिवर्जनात् ।। २४१ ॥ चोदितत्वस्य हेतुत्वाद्विरुद्धाव्यभिचारिता । विहितप्रतिषद्धत्वे मुक्त्वान्यन्न च कारणम् || २४२ ॥ धर्माधर्मावबोधस्य तेनायुक्तानुमानगीः । अनुग्रहाच्चाधर्मत्वं पीडातश्चाप्यधर्मता || २४३ ॥ वदतो जपसीवादिपानादौ नोभयं भवेत् । क्रोशता हृदयेनापि गुरुदाराभिगामिनाम् ॥ २४४॥ भूयान् धर्मः प्रसज्येत भूयसी छुपकारिता । अनुमानप्रधानस्य प्रतिषेधानपेक्षिणः || २४५ ।। हृदयक्रोशनं कस्मादद्दष्टां पीडामपश्यतः । पीडातश्चाप्यधर्मत्वं तथा पीडामधर्मतः ।। २४६ ॥