________________
(३८)
अन्योन्याश्रयमाप्नोति विना शास्त्रेण साधयन् । एवमादावशास्राज्ञो म्लेच्छो नोद्विजते क्वचित् ॥ २४७ ॥ तस्य नाधर्मयोगः स्यात्पूर्वोक्ता यदि कल्पना । तस्मादनुग्रहं पीडां तदभावमपास्य च ॥२४८ ॥ धर्माधर्मार्थिभिनित्यं मृग्यौ विधिनिषेधको । .. 'कचिदस्या निषिद्धत्वाच्छक्तिः शास्त्रेण बोधिता ॥२४९॥ प्रत्यवायनिमित्तत्वे विधिना नापगच्छति । शास्त्रेण न हि शक्तीनामावापोद्वापनक्रियाः ॥२५० ॥ विद्यमाना हि कथ्यन्ते शक्तयो द्रव्यकर्मणाम् । तदेव चेदं कर्मेति शास्त्रमेवानुधावता ॥ २५१ ॥ : हिंसादर्दानामधर्मत्वं कथ्यते नानुमानतः'। ' एवं ये निपुणं प्राहुस्तैरप्येतत्परीक्ष्यताम् ॥२५२॥ सुरापानादिभिः शूद्रः किं याति नरकं कृतैः। वैश्यस्तोमेन वा किं स्याद्विप्रराजन्ययोः फलम् ॥२५३॥ पञ्चम्यामिष्टिकरणान्मध्याह्ने चाग्निहोत्रतः'। तस्माद्यद्यादृशं कर्म यत्फलोत्पत्तिशक्तिकम् ॥२५४॥ शास्त्रेण गम्यते तस्य तादृशस्यैव तत् फलम् । 'हिंसा चांशद्वयादन्या या तस्याः प्रतिषेधजम् ॥२५५॥ प्रत्यवायार्थताज्ञानं ' विधिनाऽन्यत्र वार्यते । ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥२५६॥ ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः । व्यवस्थाः शक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ॥२५७॥ अभिन्नत्वेऽपि दृश्यन्ते भुजः स्वस्थातुरेष्वपि । रूपाभेदेपि हिंसादेर्भेदोङ्गाऽनङ्गकारितः ॥२५८॥