________________
(३९) तथाप्येकफलत्वं चेत् क्रियात्वात्सर्वसंकरः। यजित्वाद्यविशेषाच्च चित्रादिफलतुल्यता ॥२५९।। भेदात्तत्र व्यवस्था चेदिहाप्येवं भविष्यति। विधीनां वापि सर्वेषां साक्षाद् व्यवहितोऽपि वा ॥२६०॥ पुरुषार्थः फलं तेन नानर्थोऽतः प्रतीयते । न चैषु श्रयतेऽनर्थो निषेधान्न च कल्प्यते ॥२६॥ न च प्रकरणस्थत्वात्पुरुषार्थः फलं भवेत् । कर्मोपकारः कल्प्यस्तु दृष्टोऽदृष्टोऽथ वा पुनः ॥२६२॥ कल्पनावसरस्तत्र नानर्थस्यानपेक्षणात् । ऋत्वर्थश्चापि संस्कारः पशोर्नारादुपक्रिया ॥२६३।। दृष्टैव त्ववदानानां निष्पत्तिः क्रत्वपंक्षिता । अभिचारेऽप्युपायस्था हिंसा नाम उच्यते ॥२६४॥ तस्मादनगभूतायां हिंसायामेतदुच्यते ।। उद्देशाच्च फलत्वेन श्येनादौ न विधीयते ॥२६५॥ भावनाविधिरप्येव फलांशाद्विनिवर्तते । अतः स्वतो न धर्मत्वं श्येनादे प्यधर्मता ॥२६६।। फलानर्थानुवन्धित्वात्तद्द्वारेणोपचर्यते । निराकाङ्क्षस्य चैकेन श्येनस्य न फलद्वयम् ॥२६७। तस्मात् क्रियान्तरादेवा हिंसातो नार्थ उच्यते । फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ॥२६८ ॥ केवलप्रीतिहेतुत्वात्तद्धर्मत्वेन हीष्यते । ननु चेष्टाभ्युपायत्वात् श्येनादेधर्मता भवेत् ॥ २६९ ॥ फलं तावदधर्मोऽस्य श्येनादेः सम्पधार्यते । 'यदि येनेष्टसिद्धिः स्यादनुष्ठानानुबन्धिनी ॥२७० ॥