________________
(४०)
तस्य धर्मत्वमुच्येत ततः श्येनादिवर्जनम् । यदा तु चोदनागम्यः कार्याकार्यानपेक्षया ।। २७१ ॥ धर्मः प्रतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता । यदि त्वभीतिहेतुर्यः साक्षाद व्यवहितोऽपि वा ॥ २७२ ॥ सोsधर्मश्चोदनार्थः स्यात्तदा श्येनेऽप्यधर्मता । यस्तु हिंसात्वसाधर्म्याद्वाह्यवच्चोदनास्वपि ॥ २७३ ॥ वदेदनर्थहेतुत्वं तस्याप्यागमबाधनम् । तमनादृत्य यो ब्रूयाद्यागादेरप्यसौ वदेत् ॥ २७४ ॥ स्वर्गादिसाधनाशक्तिं क्रियात्वाद्भोजनादिवत् । गीतामन्त्रार्थवादैर्या कल्प्यतेऽनर्थहेतुता ॥ २७५ ॥ प्रत्यक्षश्रुतिवाध्यत्वात्सान्यार्थत्वेन नीयते । शिष्यान्प्रत्यविशिष्टत्वात्सूत्रवैदिकवाक्ययोः ॥ २७६ ॥
तत्रैव स्याद्वादमञ्जर्यां ( ८६ पृष्ठे ) स हि पौरुषेयो वा स्यादपौरुषेयो वा इत्यादि विकल्प्य खण्डितं तदर्थं मीमांसकमतम् (जैमिनिसूत्राणि २७-३२ शावर भाष्य सहितानि )
dies सन्निकर्षं पुरुषाख्या ।। १-१-२७ ॥
उक्तं चोदनालक्षणोऽर्थो धर्म इति । यतो न पुरुषकृतः शब्दस्यार्थेन सम्बन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहृतः । इदानीं अन्यथाक्षेस्यामः । पौरुषेयाश्चोदना इति वदामः । सन्निकृष्टकालाः कृतकां वेदा इदानीन्तनाः । ते च चोदनानां समूहाः । तत्र पौरुषेयाश्चेद्वेदा असंशयं पौरुषेयाश्चोदनाः कथ पुनः, कृतका वेदा इति केचिन्मन्यन्ते । यतः, पुरुषाख्याः । पुरुषेण हि समाख्यायन्ते वेदाः काठकं, कलापकं, पैप्पलादकं, मौहुलमिति न हि सम्बन्धादृते समाख्यानम् । न च पुरुषस्य शब्देन अस्ति सम्बन्धोऽन्यतः कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । त ब्रूमः । असाधारणं हि विशेषणं भवति । एक एव हि कर्ता, बहवोऽपि प्रब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान्न