________________
( ४१ )
प्रमाणं, चोदना लक्षणोऽर्थो धर्म इति ॥ २७ ॥
अनित्यदर्शनाच्च ॥ १-१-२८ ।।
2
जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बवरः प्रावाहणिरकामयत, कुसुरुविन्द औद्दालकिरकामयतेत्येवमादयः । उद्दालकस्यापत्यं गम्यते औद्दालकिः । यद्येवं, प्राक् औद्दालकिजन्मनो नायं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता ।। २८ ।। पूर्वपक्षः ।।
उक्तं तु शब्दपूर्वत्वम् ।। १-१-२९ ॥
,
उक्तं तु शब्दपूर्वत्वम् अस्माभिः शब्दपूर्वत्वमध्येतॄणां केवलं आक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते ।। २९ ।। सिद्धान्तः ॥
आख्या प्रवचनात् ॥ १-१-३० ॥
यदुक्तं कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते । नेयमर्थापत्तिः । अकर्तृभिरपि ह्येनामाचक्षीरन् । प्रकर्षेण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात् । तथापि हि समाख्यातारो भवन्ति । स्मर्यते च, वैशम्पायनः सर्वशाखाध्यायी, कठः पुनरिमां केवलां शाखामध्यापयाम्बभूवेति । स बहुशाखाध्यायिनां सन्निधावेकशाखाध्यायी अन्यां शाखामनधीयानः । तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् ॥ ३० ॥
परन्तु श्रुतिसामान्यमात्रम् ॥ १-१-३१ ॥
यच्च, प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्यासिद्धत्वान्न प्रवाहणस्यापत्यं, प्रावाहणिः । प्रशब्द: प्रकर्षे सिद्धो वहतिश्च प्रापणे न त्वस्य समुदायः क्वचित्सिद्धः । इकारस्तु यथैवापत्ये सिद्धस्तथा । क्रियायामपिकतीर । तस्माद्यः प्रवाहयति, स प्रावाहणिः । बवर इति शब्दानुकृतिः । तेन यो नित्योऽर्थस्तवैतौ शब्दौ वदिष्यतः । अत उक्तं, परन्तु श्रुतिसामान्यमात्रमिति ॥ ३१ ॥ उत्तरम् ॥
कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् ॥ १-१-३२॥ अथ कथमवगम्यते – नायमुन्मत्तबालवाक्य सदृश इति । तथाहि प- वनस्पतयः सत्रमासत, सर्पाः सत्रमासतेति । यथा, जरद्रवो
श्यामः
-
६