________________
( ४२ ) गायति मत्तकानि । कथं नाम जरद्वो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरन्निति । उच्यते । विनियुक्तं हि दृश्यते परस्परेण सम्बन्धार्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय, कर्तव्य इत्युच्यते । केनेत्याकाङ्. क्षिते, सोमेनेति । किमर्थमिति स्वर्गायेति । कथमिति इत्थमनया इति कर्तव्यतयेति । एवमवगच्छन्तः, पदाथै रेभिः संस्कृतं पिण्डितं. वाक्यार्थं कथमुन्मत्तबालवाक्यसदृशमिति वक्ष्यामः ? ।।
नन्वनुपपन्नमिदं दृश्यते, वनस्पतयः सत्रमासतेत्येवमादि । नानुपपनम । नानेन, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च, वनस्पतयः सत्रमासतेत्येवमादयोऽपि नानुपपन्नाः । स्तुतयो ह्येताः सत्रस्य । वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, कि पुनर्विद्वांसो ब्राह्मणास्तद्यथा लोके संध्यायां मृगा अपि न चरन्ति किं पुनर्विद्वांसो ब्राह्म णा इति । अपिच अविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाशङ्क्येत उन्मत्तबालवाक्यसदृश इति । तस्माच्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् ॥ ३२ ॥
श्लो. १३ ब्रह्माद्वैतमतं खण्डितम् । तदर्थं द्वैतमूलस्याध्यासस्य वर्णनं श्रीशंकराचार्यकृतम् । अथातो ब्रह्मजिज्ञासा १।१।१ इति सूत्रे.
_ 'युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवाद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः, इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽ ध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्य. धर्मांश्चाध्यस्येतरेतराविवेकेनात्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य 'अहमिदं' 'ममेदमिति' नैसर्गिकोऽयं लोकव्यवहारः। आह-कोऽयमध्यासो नामेति । उच्यते-स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित्-अन्यत्रान्यधर्माध्यास-इति वदान्त । कोचत्तु यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम-इति । अन्ये तु यत्र यदध्यासस्तत्रैव विपरीतधर्मत्वकल्पनां-आचक्षते; इति । सर्वथापि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभवः-शुक्तिका हि रजतवदवभासते, एकश्चत सहितीववदिति । तवं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विश्वतधर्मा