________________
स्यांद्वादमञ्जरीसहिता
श्लोक १
श्रीवर्धमानं जिनमाप्तमुख्यं
स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ श्रीवर्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः। किंविशिष्टम् ? अनन्तम् - अप्रतिपाति, वि-विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, ज्ञानं केवलाख्यं विज्ञानम्, ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम् । तथा अतीताः-निःसत्ताकीभूतत्वेनातिक्रान्ताः, दोषा रागादयो यस्मात् स तथा तम् । तथा अबाध्यः-परैर्वाधितुमशक्यः, सिद्धान्तः - स्याद्वादश्रुतलक्षणो यस्य स तथा तम् । तथा अमाः देवाः, तेषामपि पूज्यम् - आराध्यम् ।।
अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारोमूलातिशयाः प्रतिपादिताः। तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद - ज्ञानाऽतिशयः १। अतीतदोषमित्यनेनाऽष्टादशंदोषसंक्षयाऽभिधानाद्-अपायापगमाऽतिशयः २। अबाध्यसिद्धान्तमित्यनेन कुतीथिकोपन्यस्तकुहेतुसमूहाऽशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद् - वचनाऽतिशयः ३ । अमर्त्यपूज्यमित्यनेनाऽकृत्रिमभक्तिभरनिर्भरसुराऽसुरनिकायनायकनिर्मितमहाप्रीतिहार्यसपर्यापरिज्ञानात् - पूजाऽतिशयः ४। .
१ अतःपूर्वम्-अनन्तविज्ञानमित्यादि- इति प्रतीकं ख. पुस्तके दृश्यते । तत्संगतम्।
२ अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥७२।। कामों मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।। ७३ ॥ अभिधानचिन्तामणिः प्रथमकाण्डे श्लोकौ । अन्तरायः-जीवस्य दानादिविघ्नकारकेऽष्टमे कर्मभेदे । यथा राजा कस्मैचिद्दातुमुपदिशति तत्र भाण्डागारिकोऽन्तराले विघ्नकृद्भवति तदन्तरायकर्माष्टमं भवति ।
३ कंकिल्लि कुसुमवुहि देवझुणि चामरासणाई च । भावलयभेरिछत्तं जयन्ति जिणपाडिहेराइं॥ १॥ प्रवचनसारोद्धारे द्वार ३९ (गाथा ४४०)। छाया-१ अशोकवृक्षः, २ कुसुमवृष्टिः, ३ दिव्यध्वनिः, ४ चामरे, ५ आसनानि च, । ६ भामण्डलं, ७ भेरी, ८ छंत्रम्,।