________________
श्लोक १
अन्ययोगव्यवच्छेदिका __ अत्राह परः- अनन्तविज्ञानमित्येतावदेवास्तु,नाऽतीतदोषमिति। गतार्थत्वात् । दोषाऽत्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यते-कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदम् । तथा चाहुराजविकनयानुसारिणः -
" ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।।
गत्वागच्छन्ति भूयोऽपि भवं तीर्थनिकारतः"॥१॥इति। - तद् नूनं न ते अतीतदोषाः । कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतरः। __ आह- यद्येवम् अतीतदोषमित्येवाऽस्तु अनन्तविज्ञानमित्यतिरिच्यते । दोषात्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य । न । कैश्चिदोषाभावेऽपि तदनभ्युपगमात् । तथा च वैशेषिकवचनम् । ... “सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । : कीटसङ्ख्यापरिज्ञानं तस्य नः कोपयुज्यते?" ॥१॥ तथा –"तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । ) प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे" ॥१॥
तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव । विज्ञानानन्त्यं विना __-१ अशोकवृक्षः केवलः द्वादशगुण एव । सतु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन् एकविंशतिर्धनूंषि भवति । २ सुरकरविमुक्ताधस्थितवृन्तजानुदनपञ्चवर्णसुगन्धिपुष्पवर्षः । ३ सुरनरतिर्यक्जन्तुजातस्वस्वभाषापरिणामरमणीयः संख्यातीतपरिषत्प्राणियुगपदनेकसंशयापहारचतुरः क्षीरेक्षुद्राक्षाद्यधिकतरमाधुर्यवान्योजनगामी देशनानिनादः । ४ चामरे त्रिभुवनैश्वर्यसंसूचके शरच्चन्द्रमरीचिनिचयगौरे प्रकीर्णके । ५ आसनं - अमेयमहिमाविर्भावकं समुच्छलत्पञ्चवर्णमणिकीर्णकदम्बककर्बुरितदिगन्तरं सिंहासनम् । ६ भामण्डलम् - निर्जितमार्तण्डमण्डलं मौलिपृष्ठप्रतिष्ठितं प्रभाजालम् । ७: भेरी-पुरतो व्योम्नि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः । ८ छत्रम् - छत्रमेकदेशे समुदायोपचाराजगत्रयैकप्रभुत्वाविर्भावनचतुरं पार्वणचन्द्रमण्डलनिभातपत्रत्रयम् ।
१ अजीवं निरात्मस्वमभ्युपगच्छन्तीत्याजीविका बौद्धाः । २ 'तद्वचनम् ' इति ह. पुस्तके पाठः।