SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरोसहिता श्लोक १ एकस्याप्यर्थस्य यथावत् परिज्ञानाभावात् । तथा चार्षम्-" जे एगं जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ"। तथा'एको भावःसर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाःसर्वथा येन दृष्टाएको भावः सर्वथा तेन दृष्टः।१। ननु तर्हि अबाध्यसिद्धान्तमित्यपार्थकम्, यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधायोगात् । न । अभिप्रायापरिज्ञानात् । निर्दोषपुरुषप्रणीत एव अबाध्यः सिद्धान्तः । नापरेऽपौरुषेयाद्याः। असम्भवादिदोषाघ्रातत्वात् , इति ज्ञापनार्थम् , आत्ममात्रतारकमूकान्तकृत्केवल्यादिरूपमुण्डकैवेलिनो यथोक्तासद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थ वा विशेषणमेतत् । अन्यस्त्वाह - अमर्त्यपूज्यमिति न वाच्यम् । यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं न कथञ्चन व्यभिचरतीति। सत्यम् । लौकिकानां हि अमाः पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति । एवं पूर्वार्धे चत्वारोऽतिशया उक्ताः । १ आचारांगसूत्रे प्रथमश्रुतस्कंधे तृतीयाध्ययने चतुर्थोद्देशे सूत्रम् १२२ । छायाय एक. जानाति स सर्व जानाति । यः सर्व जानाति स एकं जानाति । २ ' इति' इत्यधिकं ख: पुस्तके । ३ ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादि ततः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः । ४ अन्तो विनाशः सच कर्मणस्तत्फलस्य वा संसारस्य कृतो येन सोऽन्तकृत् , केवली -- अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदी । ५ (१) द्रव्यभावमुण्डनप्रधानस्तथाविधबाह्यातिशयशून्यः केवली (२) संविमो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं संप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ॥ (३) यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिःसरणमेव केवलमभिवाञ्छति तथैव चेष्टने स मुण्डकेवली भवति । इति ।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy