________________
श्लोक १
अन्ययोगव्यवच्छेदिका __ अनन्तविज्ञानत्वं च सामान्यकेवलिनामप्यवश्यंभावीत्यतस्तव्यवच्छेदाय श्रीवर्धमानमिति विशेष्यपदमाप विशेषणरूपतया व्याख्यायते। श्रिया चतुस्त्रिंशदतिशयसमृद्धयनुभवात्मकभावार्हन्त्यरूपया वर्धमानं वर्धिष्णुम्। नन्वतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात् कथं वर्धमानतोपपत्तिरिति चेत् । न यथा निशीथेचूाँ भगवतां श्रीमदहतामष्टोत्तरसहस्रसङ्घयबाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्त्वादीनामानन्त्यमुक्तम् । एवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वमाविरुद्धम् । ततो नातितशयश्रिया वर्धमानत्वं दोषाश्रय इति ।
अतीतदोषता चोपशान्तमोहँगुणस्थानवर्तिनामाप सम्भवतीत्यतः क्षीणमोहाख्याऽप्रातिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थ जिनमिति विशेपणम् । रागादिजेतृत्वाद् जिनः समूलकाषङ्काषितरागादिदोष इति ।
१ चतुस्त्रिंशदतिशयाः- अस्मन्मुद्रापितप्रमाणमीमांसाटिप्पन्यां (पृ. २२) द्रष्टव्याः । २ निशीथचूर्णिग्रन्थे १७ उद्देशे । ३ उपशान्तः सर्वथानुदयावस्थो मोहो यस्य सः ।। ४ क्षीणः-निःसत्ताकीभूतो मोहो यस्य सः । ५ काचित्कदाचिदात्मनोऽवस्थाऽज्ञानपूर्णा भवति सा च सर्वतः प्रथमा अतएव निकृष्टा अस्या अवस्थाया आत्मा स्वाभाविकचेतनाचारित्रादिगुणविकासेन निर्गच्छति शनैः शनैः तत्तच्छक्तिविकासानुसारमुत्क्रान्तो भवति च ततो विकासस्य पूर्णतया पूर्णतां गच्छति । यदा आत्मन आवरणरूपं कर्म क्षीयते तदा ज्ञानदर्शनचारित्र्यादिगुणानां शक्तिरधिका भवति । किंच यदा आवरणभूतकर्माधिक्यं तदा गुणानां शुद्धियूंना भवति । प्रथमाया निकृष्टावस्थाया निर्गम्य विकासस्य पूर्णावस्था लंभनीया इत्येव आत्मनः परमसाध्यम्। एतस्याः प्राप्तिपर्यन्तं आत्मा क्रमशः तास्ता अवस्था लभते । इयमेव अवस्थाप्राप्तिश्रेणिर्विकासक्रम इत्यभिधीयते । अयमेव विकासक्रमो जैनशास्त्रे गुणस्थानक्रम इत्युच्यते । गुणस्थानस्य चतुर्दश भेदाः । १ मिच्छे २ सासण ३ मीसे ४ अविरय ५ देसे ६ पमत्त ७ अपमत्ते । ८ नियठि ९ अनियठि १० सुहुमु ११ वसम १२ खीण १३ सजोगि १४ अजोगिगुणा। (द्वितीयकर्मग्रन्थद्वितीयगाथा) छाया-मिथ्यात्वासस्वादनमिश्रमविरतदेशं प्रमत्ताप्रमत्तम् । निवृत्त्यनिवृत्तिसूक्ष्मोपशमक्षीणसयोग्ययोगिगुणाः।