________________
७ . . . . स्याद्वादमञ्जरीसहिता
श्लोक १ अबाध्यसिद्धान्तता च श्रुतकैवल्यादिष्वपि दृश्यतेऽतस्तदपोहायाप्तमुख्यामिति विशेषणम् । आप्तिर्हि रागद्वेषमोहानामैकान्तिक आत्यन्तिकैश्च क्षयः, सा येषामस्ति - ते खल्वाप्ताः अभ्रादित्वाद् मत्वर्थीयोऽप्रत्ययः । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यम् । " शाखादेर्यः"॥७१।११४ ॥ इति तुल्ये यः। अमर्त्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनामपि न दुर्घटा, अतस्तानिराकरणाय स्वयम्भुवमिति विशेषणम्। स्वयम्-आत्मनैव, परोपदेशनिरपक्षतयावगततत्त्वो भवतीति स्वयम्भूः-स्वयं संबुद्धः, तम् । एवंविधं चरमाजिनेन्द्र स्तोतुंस्तुतिविषयीकर्तुम्, अहं यतिष्ये-यत्नं करिष्यामि ।
अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्यानुष्ठानं भगवद्गुणस्तवनं मन्यमानःश्रद्धामेव स्तुतिकरणेऽसाधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं.न पुनर्यथावस्थितभगवद्गुणस्तवनसिद्धिारीत सूचितवान् । अहमिति च गतार्थत्वेऽपि परोपदेशान्यानुवृत्त्यादिनिरपेक्षतया निजश्रद्धयैव स्तुतिप्रारम्भ इति ज्ञापनार्थम् । __ अथवा-श्रीवर्धमानादिविशेषणचतुष्टयमनन्तविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमद्भावेन व्याख्यायते—यत एव श्रीवर्धमानम्, अत एवाऽनन्तविज्ञानम् । श्रिया-कृत्स्नकर्मक्षयाविभूताऽनन्तचतुष्कसं
१ श्रुतेन केवलिनः श्रुतकेवलिनः । चतुर्दशपूर्वधरत्वात् । ' अथ प्रभवः प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः ॥ ३३ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ॥ ३४ ॥ इति अभिधानचिन्तामणौ प्रथमकाण्डे ।
२ निःशेषीकृतेऽपि पुनरुद्भवमाशङ्ख्यात्यन्तिकः, अभूयःसंभवदोषविनाशः । इति ख. पुस्तके टिप्पनम् । ३ 'अभ्रादिभ्यः' हैमसूत्रम् ७।२।४६ ।
४ (१) अनन्तज्ञान (२) अनन्तदर्शन (३) अनन्तचारित्र (४) अनन्तवीर्य इति . चतुष्कम् ।