________________
श्लोक १
अन्ययोगव्यवच्छेदिका
पद्रूपया वर्धमानम् । यद्यपि श्रीवर्धमानस्य परमेश्वरस्यानन्तचतुष्कसंपत्तेरुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वात् चयापचयौ न स्तः, तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद् वर्धमानत्वमुपचर्यते । यद्यपि च श्रीवर्धमान विशेषणेनानन्तचतुष्कान्तर्भावित्वेनानन्तविज्ञानत्वमपि सिद्धम्, तथाप्यनन्तविज्ञानस्यैव परोपकारसाधकतमत्वाद् भगवत्मवृत्तेश्च परोपकारैकानिबन्धनत्वाद्, अनन्तविज्ञानत्वं शेषानन्तत्रयात् पृथग् निर्धार्याचार्येणोक्तम् ।
८
ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं, तथाऽनन्तदर्शनस्यापि केवलदर्शनापरपर्यायस्य पारार्थ्यमव्याहतमेव केवलज्ञानकेवलदर्शनाभ्यामेव हि स्वामी क्रममवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति तत्किमर्थं तन्नोपात्तम् ? इति चेत् | उच्यते । विज्ञानशब्देन तस्यापि संग्रहाददोष:, ज्ञानमत्राया उभयत्रापि समानत्वात् । य एव हि अभ्यन्तरीकृतसंमताऽऽख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्तेऽर्थाः, त एव ह्यभ्यन्तरीकृतविषमताधर्माः समताधर्माविशिष्टा दर्शनेन गम्यन्ते; जीवस्वाभाव्यात् । सामान्यप्रधानमुपसैर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते । तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति । तथा यत एव जिनम्, अत एवातीतदोषम् रागादिजेतृत्वाद्धि जिनः । न चाजिनस्यातीतदोषता । तथा यत एवाप्तमुख्यम् । अत एवावाध्यसिद्धान्तम् । आप्तो हि प्रत्यायित उच्यते । तत आप्तेषु मुख्यं श्रेष्ठमाप्तमुख्यम् । आप्तमुख्यत्वं च प्रभोरविसंवादिवचनतया विश्वविश्वा सभूमित्वात् । अत एवावाध्यसिद्धान्तम् । न हि यथावज्ज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयैर्बाधितुं शक्यते । यत एव स्वय
१ ज्ञानेयत्तायाः ।
२ समता–सामान्याख्यधर्मः । ३ उपसर्जनं - गौणम् |