________________
स्याद्वादमञ्जरीसहिता
श्लोक २ म्भुवम्, अत एवामर्त्यपूज्यम् । पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बुद्धत्वगुणेन सौधर्मेन्द्रादिभिरमत्यैरिति । अत्र च श्रीवर्धमानमिति विशेषणतया यद् व्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमद्वात्रिंशिकाप्रथमकाव्यतृतीयपादवर्तमानं 'श्रीवर्धमानाभिधमात्मरूपम्' इति विशेष्यवर्तमानं बुद्धौ संप्रधार्य विज्ञेयम्। तत्र हि आत्मरूपमिति विशेष्यपदम्, प्रकृष्ट आत्मा आत्मरूपस्तं परमात्मानमिति यावत् । आवृत्त्या वा विशेषणमापि विशेष्यतया व्याख्येयमिति प्रथमवृत्तार्थः ॥१॥
अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्य च तीर्थान्तरीयपरिकल्पिततत्त्वाभासनिरासेन तेषामातत्वव्यवच्छेदः स्वरूपम् । तच्च भगवतो यथावस्थितवस्तुतत्त्ववादित्वख्यापनेनैव प्रामाण्यमश्नुते । अतः स्तुतिकारस्त्रिजगद्गुरोनिःशेषगुणस्तुतिश्रद्धालुराप सद्भूतवस्तुवादित्वाख्यं गुणविशेषमेव वर्णयितुमात्मनोऽभिप्रायमाविष्कुर्वनाह
अयं जनो नाथ ! तव स्तवाय
गुणान्तरेभ्यः स्पृहयालरेव । विगाहतां किन्तु यथार्थवाद
मेकं परीक्षाविधिदुर्विदग्धः ॥२॥ हे नाथ! अयं- मल्लक्षणो जनः, तव गुणान्तरेभ्यो-यथार्थवादव्यतिरिक्तेभ्योऽनन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालुरेव श्रद्धालुरेव । किमर्थम् ? स्तवाय - स्तुतिकरणाय । इयं तांदर्ये चतुर्थी । पूर्वत्र तु " स्पृहाप्यं वा” इतिलक्षणा चतुर्थी ।
१ अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ इति अयोगव्यवच्छेदद्वात्रिकायां संपूर्णः श्लोकः ।
२ हैमसूत्रम् २।२।५४ ।। ३ हैमसूत्रम् २।२।२६ । ४ ' चतुर्थी इति ह. पुस्तके नास्ति ।