________________
श्लोक २
अन्ययोगव्यवच्छेदिका तव गुणान्तराण्यपि स्तोतुं स्पृहावीनयं जन इति भावः । ननु यदि गुणान्तरस्तुतावपि स्पृहयालुता तत्किं तान्यपि स्तोष्यति स उत नेत्याशङ्कयोत्तरार्धमाह-किन्त्विति-अभ्युपगमपूर्वकविशेषद्योतने निपातः । एकम्-एकमेव । यथार्थवाद-यथावस्थितवस्तुतत्त्वप्रख्यापनाख्यं त्वदीयं गुणम् , अयं जनो विगाहतां-स्तुतिक्रियया समन्ताद् व्यामोतु । तस्मिन्नेकस्मिन्नाप हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्टयख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः। __ अथ प्रस्तुतगुणस्तुतिः सम्यक्परीक्षाक्षमाणां दिव्यदृशामेवौचितीमञ्चति, नार्वाग्दृशां भवादृशामित्याशङ्कां विशेषणद्वारेण निराकरोतियतोऽयं जनः परीक्षाविधिदुर्विदग्धः - अधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्धः - पण्डितंमन्य इति यावत् । अयमाशयः -- यद्यपि जगद्गुरोर्यथार्थवादित्वगुणपरीक्षा मादृशां मतेरगोचरः, तथापि भक्तिश्रद्धातिशयात् तस्यामहमात्मानं विदग्धमिव मन्य इति । विशुद्धश्रद्धाभक्तिव्यक्तिमात्रस्वरूपत्वात् स्तुतेः, इति वृत्तार्थः ॥२॥ ___ अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः, तानपि तत्त्वविचारणां प्रति शिक्षयन्नाह -
गुणेष्वसूयां दधतः परेऽमी
मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि
विचारयन्तां नयवर्त्म सत्यम् ॥३॥ १ 'स्पृहावानेवायम्' इति क, ख, पुस्तकयोः पाठः।। २ तत्किमर्थं तत्रोपेक्षा इत्याशक्योत्तरार्धमाह-' इति रा, ह. पुस्तकयोः पाठः । ३ ' परीक्षणम्' इति रा. ह. पुस्तकयोः पाठः ।