________________
११ . स्याद्वादमञ्जरीसहिता
श्लाके २ अमी इति-'अदसस्तु विप्रकृष्टे' इति वचनात् तत्त्वातत्त्वविमशबाह्यतया दूरीकरणार्हत्वाद् विप्रकृष्टाः, परे-कुतीर्थिकाः, भवन्तंत्वाम् , अनन्यसामान्यसकलगुणनिलयमाप; मा ईशं शिश्रियन्-मा स्वामित्वेन प्रतिपद्यन्ताम् । यतो गुणेष्वम्यां दधतः-गुणेषु बद्धमत्सराः गुणेषु दोषाविष्करणं ह्यसूया, यो हि यत्र मत्सरी भवति स तदाश्रयं नानुरुध्यते, यथा माधुर्यमत्सरी करभः पुण्ड्रेक्षुकाण्डम् । गुणाश्रयश्च भवान् । एवं परतीथिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिष्य स्तुतिकारी माध्यस्थामवास्थाय, तान् प्राति हितशिक्षामुत्तराधेनोपदिशति-तथापि-- त्वदाज्ञाप्रतिपत्तेरभावेऽपि,लोचनानि नेत्राणि संमील्य --मिलितपुटीकृत्य, सत्यं - युक्तियुक्तं, नयवर्त्म-न्यायमार्ग, विचारयन्तां -विमर्शविषयीकुर्वन्तु । ___ अत्र च विचारयन्तामित्यात्मनेपदेन फलवत्कविषयेणैवं ज्ञापयत्याचार्यो यदवितथनयप्रथविचारणया तेषामेव फलं, वयं केवलमुपदेष्टारः । किं तत्फलम् ? इति चेत्, प्रेक्षावत्तति ब्रूमः । संमील्य विलोचनानीति च वदतः प्रायस्तत्त्वविचारणमेकाग्रताहेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः। अथवा अयमुपदेशस्तेभ्योऽरोचमान एवाचार्येण वितीर्यते; ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनायतिसुखत्वाद् भवद्भिनेत्रे निमील्य पेय एवेत्याकूतम् ।
ननु यदि च पारमेश्वरे वचसि तेषामाववेकातिरेकादरोचकता, तत्किमर्थ तान् प्रत्युपदेशक्लेश इति ? । नैवम् । परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यंगतां रुचिमरुचिं वाऽनपेक्ष्य हितोपदेशपत्तिदर्शनातः तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात न च हितोपदेशादपरः पारमार्थिकः परार्थः । तथा चार्षम्
१ इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति पराक्षे विजानीयात् ॥ १॥ इति संपूर्णः श्लोकः। ख. पुस्तके 'अदसस्तु विप्रकृष्टे' इति नास्ति ।
२ बोध्यछात्रविषयिणीम् ।