SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्लोक ३ अन्ययोगन्यवच्छेदिका "रूसऊं वा परो मा वा, विसं वा परियत्तऊ । भासियव्वा हिया भासा सपक्खगुणकारिया"॥१॥ उवाच च वाचकमुख्यः"नै भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति" ॥१॥ इति वृत्तार्थः ॥३॥ अथ यथावन्नयवर्त्म-विचारमेव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दुषयन्नाह स्वतोऽनुवृत्तिव्यतिवृचिभाजो भावा न भावान्तरनेयरूपाः। परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ अभवन्, भवन्ति, भविष्यन्ति चेति भावाः-पदार्थाः, आत्मपुद्गलादयस्ते स्वत इति-सर्व हि वाक्यं सावधारणमामनन्ति इति स्वत एव-आत्मीयस्वरूपादेव, अनुहात्तिव्यातहत्तिभाजः-एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः । व्यतिवृत्तिः च्यावृत्तिः, १ छाया-रुषतु वा परो मा वा विषं वा पर्यटतु । भाषितव्या हिता भाषा स्वपक्षगुणकारिका । एतदर्थक एव श्लोको श्रीहेमचन्द्रकृतश्रेणिकचरित्रे द्वितीयसर्गे ३२ उपलभ्यते । तथाहि-परो रुष्यतु वा मा वा विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ॥ ३२॥ २ उमास्वातिः । अयमुमास्वामीत्यपि भण्यते ।। ३ तत्त्वार्थसूत्रसंबन्धकारिकासु २९ श्लोकः । ४ अनुवृत्तिः- अन्वयः । व्यतिवृत्तिः- न्यतिरेकः । । ५ पूरणगलनधर्माणः पुद्गलाः (दशवैकालिकप्रथमाध्ययने).
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy