________________
१३ . स्याद्वादमञ्जरीसहिता
श्लोक ४ सजातीयविजातीयेभ्यः सर्वथा व्यवच्छेदः; ते उभे अपि संवलिते भजन्ते-आश्रयन्तीति अनुवृत्तिव्यतित्तिभाजः, सामान्यविशेषोभयात्मका इत्यर्थः।
अस्यैवार्थस्य व्यतिरेकमाह-न भावान्तरनेयरूपा इति-नेति निषेधे। भावान्तराभ्यां-पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां, भावव्यतिरिक्तसामान्यविशेषाभ्यां; नेयं -प्रतीतिविषयं पापणीयं, रूपं-यथासंख्यमनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः । स्वभाव एव ह्ययं सर्वभावानां यदनुहात्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति । तथाहि घट एव तावत् पृथुबुध्नोदराद्याकारवान् प्रतीतिविषयीभवन् सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया, घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं न्यावर्तयन् विशेषव्यपदेशमश्नुते । इति न सामान्यविशेषयोः पृथक्पदार्थान्तरत्वकल्पनं न्याय्यम पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् । न च धर्मा धर्मिणः सकाशादत्यन्तं व्यतिरिक्ताः। एकान्तभेदे विशेषणविशेष्यभावानुपपत्तेः ; करभरासभयोरिव धर्मधर्मिव्यपदेशाभावप्रसङ्गाच्च । धर्माणामपि च पृथपदार्थान्तरत्वकल्पने एकास्मबेव वस्तुनि पदार्थानन्त्यप्रसङ्गः ; अनन्तधर्मकत्वाद् वस्तुनः ।
तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुध्यमाना अकुशलाः अतत्त्वाभिनिविष्टदृष्टयः तीर्थान्तरीया स्खलन्ति न्यायमार्गाद् भ्रश्यन्ति, निरुत्तरीभवन्तीत्यर्थ । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते । किं कुर्वाणाः?, द्वयम् अनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययद्वयं
१. व्यावृत्तिलक्षणम् ' इति क. ख. पुस्तकयोः पाठः ।
२ विशेषसंज्ञाम् । . ३ कुत्सिताग्रहवन्तः ।