________________
श्लोक ४
अन्ययोगव्यवच्छेदिका वदन्तः । कस्मादेतत्प्रत्ययद्वयं वदन्तः ?, इत्याह-परात्मतत्त्वात्-परौ पदार्थेभ्यो व्यतिरिक्तत्वादन्यौ, परस्परनिरपेक्षौ च यो सामान्यविशेषौ, तयोर्यदात्मतत्त्वं-स्वरूपम् , अनुवृत्तिव्यावृत्तिलक्षणं, तस्मात्तदाश्रित्येत्यर्थः, “गम्ययपः कर्माधारे"॥२।२।७४ ॥ इत्यनेन पञ्चमी। कथंभूतात् परात्मतत्त्वाद् ?, इत्याह--अतथात्मतत्त्वात् मा भूत् पराभिमतस्य परात्मतत्त्वस्य सत्यरूपतति विशेषणमिदम् । यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं,न तथा-तेन प्रकारेणात्मतत्त्वं स्वरूपं यस्य तत्तथा, तस्मात् यतः पदार्थेष्बाविष्वग्भावेन सामान्यविशेषौ वर्तेते; तैश्च तौ तेभ्यः परत्वेन कल्पितौः परत्वं चान्यत्वं तच्चैकान्तभेदाविनामावि ।
किञ्च पदार्थेभ्यः सामान्यविशेषयोरेक्रान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयमनुवृत्तिव्यात्तिरूपं प्रत्ययद्वयं नोपपद्यत । एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः। सामान्यविशेषव्यवहाराभावश्च स्यात् सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणे प्रतीतेः। परस्परनिरपेक्षपक्षस्तु पुरस्तानिलोठयिष्यते । अत एव तेषां वादिनां स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । यो हि अन्यथास्थितं वस्तुस्वरूपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परान्नाशयति, न खलु तस्मादन्य उपहासपात्रम् इति वृत्तार्थः ॥४॥
अथ तदभिमतानेकान्तनित्यानित्यपक्षौ दूषयन्नाह.. आदीपमाव्योम समस्वभावं
___ स्याद्वादमुद्राऽनतिभेदि वस्तु । १ हैमसूत्रम् । २।२।७४ । २ अपृथग्भावेन । ३ 'प्रमाणेनैव ' इति क. पुस्तके पाठः ।