________________
स्याद्वादमञ्जरीसहिता
श्लोक ५ .. तन्नित्यमेवैकमनित्यमन्य
दिति त्वदाज्ञाद्विषतां प्रलापाः॥५॥ आदीपं-दीपादारभ्य, आव्योम-व्योम मर्यादीकृत्य, सर्ववस्तुपदार्थस्वरूपं, समस्वभावं-समः तुल्यः, स्वभावः- स्वरूपं यस्य तत्तथा । किञ्च वस्तुनः स्वरूपं द्रव्यपर्यात्मकत्वमिति ब्रूमः । तथा च वाचकमुख्यः- "उत्पादव्ययध्रौव्ययुक्तं सत्" इति । समस्वभावत्वं कुतः? इति विशेषणद्वारेण हेतुमाह-स्याद्वादमुद्रानातिभेदि-स्यादित्यव्ययमनेकान्तद्योतकम् , ततः स्याद्वादः अनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् । तस्य मुद्रा-पर्यादा, तां, नाऽतिभिनत्ति-नातिक्रामतीति स्याद्वादमुद्रानतिभेदि। यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात् एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्र, तदीयमुद्रां सर्वेऽपि पदार्था नातिकामन्ति; तदुल्लङ्कने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः।
सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्टस्यैकं वस्तु व्योमादि नित्यमेव, अन्यच्च प्रदीपादि-अनित्यमेव इति वादस्य प्रतिक्षेपबीजम्। सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः ।
तत्रैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्वव्यवस्थापने दिङ्मात्रमुच्यते
तथाहि-प्रदीपपर्यायापन्नास्तैजसाः परमाणवः स्वरसतस्तैलक्षयाद् वाताभिघाताद्वा ज्योतिष्पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमाश्रय१ तत्त्वार्थाधिगमसूत्रे अ. ५ सू. २९ । २ 'आसादयन्तोऽपि' इति ह. पुस्तके पाठः ।