________________
श्लोक ५
अन्ययोगव्यवच्छेदिका न्तोऽपि नैकान्तेनानित्याः; पुद्गलद्रव्यरूपतयावस्थितत्वात् तेषाम्। नह्येतावतैवानित्यत्वं-यावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः । न खलु मृद्र्व्यं स्थासंक-कोश-कुशूल-शिवक-घटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टम् ; तेषु मृद्रव्यानुगमस्याबालगोपालं प्रतीतत्वात् । न च तमसः पौगलिकत्वमसिद्धम् ; चाक्षुषत्वान्यथानुपपत्तेः; प्रदीपालोकवत् ।
अथ यच्चाक्षुषं, तत्सर्व स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत्कथं चाक्षुषम् ? । नैवम् । उलूकादीनामालोकमन्तरेणापि तत्पतिभासात् । यैस्त्वस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते; विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः। इति सिद्धं तमश्चाक्षुषम् ।
रूपवत्त्वाच्च स्पर्शवत्त्वमपि प्रतीयते; शीतस्पर्शप्रत्ययजनकत्वात् । यानि त्वनिबिडावयवत्वमप्रतिघातित्वमनुद्भूतस्पविशेषत्वप्रतीयमा-न खण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय नपरैः साधनान्युपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि; तुल्ययोगक्षेमत्वात् ।
न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति ? पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । दृष्टो ह्याट्टैन्धनसंयोगवशाद् भास्वररूपस्यापि वन्हेरभास्वरूपधुमरूषकार्योत्पादः । इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नवनवपर्यायोत्पादविनाश
१ स्थासककोशादयो घटस्योत्पतेः प्राक् मृद एवावस्थाः । २ 'शबक ' इति क. पुस्तके पाठः । ३ अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेम इति ।