________________
स्याद्वादमञ्जरीसाहता
श्लोक ५ भाक्त्वात्, प्रदीपत्वान्वयाच नित्यानित्य एव ।
एवं व्योमापि-उत्पादव्ययध्रौव्यात्मकत्वाद् नित्यानित्यमेव । तथाहि अवगाहकानां जीवपुद्गलानामवगाहदानोपंग्रह एव तल्लक्षणम् "अवकाशदमाकाशम्” इति वचनात् । यदा चावगाहका जीवपुद्गलाः प्रयोगतो विर्ससातो वा एकस्मान्नभ प्रदेशात् प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकास्मिन् प्रदेशे विभागः उत्तरस्मिंश्च प्रदेशे संयोगः। संयोगविभागौ चे परस्परं विरुधौ धर्मों, तद्भेदे चावश्यं धर्मिणो भेदः। तथा चाहुः- " अयमेव हि भेदो, भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति"। ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम्, उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्पन्नम् । उभयत्राकाशद्रव्यस्यानुगतत्वाच्चोत्पादव्ययोरेकाधिकरणत्वम् ।
तथा च यद् "अप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम्" इति नित्यलक्षणमाचक्षते। तदपास्तम् । एवंविधस्य कस्यचिद्वस्तुनोऽभावात्। "तौवाव्ययं नित्यम्" इति तु सत्यं नित्यलक्षणम् ; उत्पादावनाशयोः सद्भावेऽपि तद्भावाद्-अन्वयिरूपाद् यन्न व्येति तनित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते, तदोत्पादव्यययोनिराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः;
१ उपग्रहः-उपकार इति तत्त्वार्थभाष्ये । २ उत्तराध्ययनसूत्रे अध्ययने २८ गाथा ९ । अत्र वृत्तौ महोपाध्यायश्रीमद्भावविजयगणिकृतायामिदमुपलभ्यते ।
३ प्रयोगतः-पुरुषशक्त्या ।। ४ विलसातः स्वभावेन । ५ 'च' इति क. पुस्तके नास्ति । ६ वस्तूनि द्विविधानि लक्षणभेदात्कारणभेदाच्च घटो जलाहरणादिगुणवान् पटश्श्र शतित्राणादिगुणवान् । तथा घटस्य कारणं मृत्पिण्डादि । पटस्य कारणं तन्त्वादि । ७ तत्त्वार्यसूत्रम् अ. ५ सू. ३० ।