________________
श्लोक ५
अन्ययोगव्यवच्छेदिका " द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः।
क कदा केन किंरूपा दृष्टा मानेन केन वा?" ॥१॥ इति वचनात् । ...न चाकाशं न द्रव्यम् ।
लौकिकानामाप घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धेराकाशस्य नित्यानित्यत्वम् । घटाकाशमपि हि यदा घटापगमे, पटेनाक्रान्तं, तदा पटाकाशमिति व्यवहारः। न चायमौपचारिकत्वादप्रमाणमेव । उपचारस्यापि किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं तत् तदाधेयघटपटादिसम्बन्धिनियतपरिमाणवशात् कल्पितभेदं सत् प्रतिनियतदेशव्यापितया व्यवाहियमाणं घटाकाशंपटाकाशादितत्तव्यपदेशनिबन्धनं भवति । तत्तद्घटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नोऽवस्थान्तरापात्तः, ततश्वावस्थाभेदेऽवस्थावतोऽपि भेदः। तासां ततोऽविवरभावात् । इति सिद्धं नित्यानित्यत्वं व्योम्नः । - स्वायंभुवा अपि हि नित्यानित्यमेव वस्तु प्रर्पन्नाः । तथा चाहुस्ते" त्रिविधैः खल्वयं धर्मिणः परिणामो धर्मलक्षणावस्थारूपः। सुवर्ण धर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः, धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः यदा खल्वयं हेमकारो वर्धमानकं भङ्क्त्वा रुचकमारचयति तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते, रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतालक्षणमापद्यते; वर्तमानतापन्न एव तु रुचको नवपुराणभावमापद्यमा
१ एतदर्थिका गाथा-संमतितकें प्रथमकाण्डे दृश्यते--' दव्यं पजवविज्जु दव्वविउत्ता य पज्जवा नत्थि ॥१२॥
२ एतद्वाक्यं ख. पुस्तके नास्ति ।। ३ स्वायंभुवाः- पातञ्जलयोगानुसारिणः । ४ 'प्रतिपन्नाः' इति क, पुस्तके पाठः । ५ पातञ्जलयोगसूत्र ३।१३ इत्यत्रैतदर्थकं वाक्यजातम् । .