________________
स्याद्वादमञ्जरीसहिता
श्लोक ५ नोऽवस्थापरिणामवान् भवति; सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिनाश्च। तथा च ते धर्नामेदात् तन्नित्यत्वेन नित्याः; भेदाचोत्पत्तिविनाशाविषयत्वम् इत्युभयमुपपन्नामिति ।"
अथोत्तरार्ध वित्रियते-एवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धेऽपि तद्वस्तु एकमाकाशात्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवः इत्येवकारोऽत्रापि सम्बध्यते । इत्थं हि दुर्नयवादापत्तिः । अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां-भवत्प्रणीतशासनविरोधिनां प्रलापाः-प्रलपितानि, असम्बद्धवाक्यानीति यावत् ।
अत्र च प्रथममादीपमिति परप्रसिद्धयानित्यपक्षोल्लेखेऽपि, यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तम्, तदेवं ज्ञापयति-यदनित्यं, तदपि नित्यमेव कथाञ्चित् , यच्च नित्यं, तदप्यनि त्यमेवं कथञ्चित्; प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्यानित्यत्वाभ्युपगमात् । तथा च प्रशस्तकारः “सा तु द्विविधा, नित्या चानित्या च; परमाणुलक्षणा नित्या; कार्यलक्षणा त्वनित्या" इति ।
न चात्र परमाणु-कार्यद्रव्यलक्षणविषयद्वयभेदाद् नैकाधिकरणं नित्यानित्यत्वमिति वाच्यम्; पृथिवीत्वस्योभयत्राप्यव्यभिचारात्; एवमवादिष्वपीति । आकाशेऽपि संयोगविभागाङ्गीकारात् तैरनित्यत्वं युक्त्या प्रतिपन्नमेव । तथा च स एवाह- “शब्दकारण
१ निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां । वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासंगिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्चेदेकांशकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥१॥ इति नयदुर्नययोर्लक्षणं श्रीउमास्वातिकृतपचाशतौ ग्रंथे । २ वैशेषिकदर्शने प्रशस्तपादभाष्ये पृथिवीनिरूपणप्रकरणे ।