________________
श्लोक ५
अन्ययोगव्यवच्छेदिका त्ववचनात् संयोगविभागौ" इति नित्यानित्यपक्षयोः संवलितत्वम् । एतच लेशतो भावितमेवोत ।।
प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम्-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम्। तच्चैकान्तनित्यानित्यपक्षयोर्न घटते; अपच्युतानुत्पन्नास्थरैकरूपो हि नित्यः; सच क्रमेणार्थक्रियां कुर्वीत, अक्रमेण वा ? अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न तावत् क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तः। समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत् न तर्हि तस्य सामर्थ्यम्; अपरसहकारिसापेक्षत्तित्वात 'सापेक्षसमर्थम् ' इति न्यायात् । ..
न तेन सहकारिणोऽपेक्ष्यन्तेः अपि तु कार्यमेव-सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत् तत् किं स भावोऽसमर्थः समर्थो वा ? । समर्थश्चेत्, किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते ? न पुनर्झटिति घटयति । ननु समर्थमपि बीजम्-इलाजलानिलादिसहकारिसहितमेवाङ्कुरं करोति, नान्यथा । तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत, न वा ? । यदि नोपक्रियेत, तदा सहकारिसन्निधानात् प्रागिव, किं न तदाऽप्यर्थक्रियायामुदास्ते ? । उपक्रियेत चेत् सः, तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम्। १ प्रशस्तपादभाष्ये आकाशनिरूपणे ।
२ अतःपरं पृष्ठे (२२)नानाकार्याणां कथमुत्पत्तिरिति चेदित्यन्तं हेमचन्द्रकृतप्रमाणमीमांसास्वोपज्ञवृत्तौ ( १-१-३३ ) यनिर्दिष्टं तदेव स्याद्वादमञ्जरों संगृहीतम् । यद्यपि कुत्रचिदक्षरभेदो दृश्यते तथाप्यर्थभेदस्तु न कुनापि ।
३ कालविलम्बाभावात् । ४ हेमहंसगणिसमुच्चितहमचन्द्रव्याकरणस्थन्यायः २८ । ५ इला पृथिवी । ६ ' जलानलानिलादि ' इति ख. पुस्तके पाठः। .