________________
२१ स्याद्वादमञ्जरीसहिता
श्लोक ५ अभेदे स एव क्रियते । इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः।
भेदे तु कथं तस्योपकारः ? किं न सह्यविन्ध्याद्रेरपि । तत्सम्बन्धात् तस्यायामिति चेत्, उपकार्योपकारयोः कः सम्बन्धः ? । न तावत् संयोगः; द्रव्ययोरेव तस्य भावात् अत्र तु उपकार्य द्रव्यम्, उपकारश्च क्रियेति न संयोगः। नापि समवायः; तस्यैकत्वात्-व्यापकत्वाच्च-प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः । नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे-पुनरपि समवायस्य न नियतसंबन्धिसंबन्धत्वम् । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । __ नाप्यक्रमेण-नोको भावः सकलकालकलाकलापभाविनीयुगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षभावी दोषः; अकरणे त्वर्थक्रियाकारित्वाभावाद्-अवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयाति; इति नैकान्तनित्यपक्षो युक्तिक्षमः। एकान्तानित्यपक्षोऽपि न कक्षीकरणाहः। अनित्यो हि प्रतिक्षण१ यदा कश्चिद्वाधुषिः स्वद्रव्यं कुसीदेच्छयाधमय प्रयच्छति । तेनाधमणेन न मूलद्रव्यं न वा कुसीदं प्रत्यावर्त्यते तदायं न्यायः समापतति । वृद्धिमिच्छतो मूलद्रव्यक्षतिरुत्पन्नेत्यर्थः।
२ न प्रतीयत इत्यर्थः । . ३ स्वीकर्तु योग्य इत्यर्थः।