________________
श्लोक ५ अन्ययोगव्यवच्छेदिका
२२ विनाशी; स च न क्रमेणार्थक्रियासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । क्रमो हि पौर्वापर्यम् , तच्च क्षणिकस्यासम्भवि । अवस्थितस्यैव हि नानादेशकालव्याप्तिः-- देशक्रमः कालक्रमश्चाभिधीयते; न चैकान्तविनाशिनि सास्ति । .. यदाहुः
“यो यत्रैव स तत्रैव यो यदैव तदैव सः। .
न देशकालयोाप्तिर्भावानामिह विद्यते" ॥१॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति; सन्तानस्याऽवस्तुत्वात् वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं, न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाक्षणिकत्वं, तर्हि समाप्तः क्षणभङ्गवादः। __नाप्यक्रमेणार्थक्रिया क्षणिके संभवति । स ह्येको बीजपूरााँदक्षणों युगपदनेकान् रसादिक्षणान् जनयन् एकेन स्वभावेन जनयेत, नानास्वभावैर्वा ? । यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यात् । एकस्वभावजन्यत्वात् । अथ नानास्वभावैर्जनयति-किञ्चिद्रूपादिकमुपादानभावेन, किञ्चिद्रसादिकं सहकारित्वेन, इति चेत् ; तर्हि ते स्वभावास्तस्यात्मभूता अनात्मभूता वा ? । अनात्मभूताश्चेत् स्वभावत्वहानिः । यद्यात्मभूताः, तर्हि तस्यानेकत्वम् ; अनेकस्वभावत्वात्; स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात तेषां तस्य चैकत्वात् । __ अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसायं च कथामिष्यते क्षणिकवादिना ?। अथ नित्यमेकरूपत्वादक्रम, अक्रमाच क्रमिणां नानाकार्याणां कथ
१ आजीविकाः। २ 'दृश्यते' इति क. पुस्तके पाठः । ३ 'बीजपूरादिरूपादि' इति क. पुस्तके पाठः। ४ एते बौद्धाः क्षणशब्देन पदार्थान् गृह्णन्ति। यतः सर्वे पदार्थाः क्षणिकाः ।